पूर्वम्: ३।४।३
अनन्तरम्: ३।४।५
 
सूत्रम्
यथाविध्यनुप्रयोगः पूर्वस्मिन्॥ ३।४।४
काशिका-वृत्तिः
यथाविध्यनुप्रयोगः पूर्वस्मिन् ३।४।४

पूर्वस्मिन् लोड्विधाने यथाविध्यनुप्रयोगो भवति। यस्माद् धातोः लोड् विहितः स एव धातुरनुप्रयोक्तव्यः। धातुसम्भन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव, यथाविध्यर्थं तु वचनम्। तथा च एव उदाहृतम् लुनीहि लुनीहि इत्येव अयं लुनीति इति। छिनत्ति इति न अनुप्रयुज्यते। अधीष्वाधीष्वेत्येव अयम् अधीते। पठति इति न अनुप्रयुज्यते।
न्यासः
यथाविध्यनुप्रयोगः पूर्वस्मिन्। , ३।४।४

"पूर्वस्मिन लोड्()विधाने" इत्यादेर्वाक्यस्य यस्माद्धातोरित्यादिनार्थं स्पष्टीकरोति। "धातुसम्बन्धे" इत्यादि। धातुसम्बन्ध ३।४।१ इत्यनुवृत्तेर्धातुसम्बन्ध एव लोड्()विधानम्, अतोऽनु प्रयोगः सिद्धः एव, न हि तेन विना धातुसम्बन्धो भवति; तस्य द्विष्ठत्वात्। यद्येवम्, किमर्थमिदं वचनम्? इत्याह-- "यथाविध्यर्थं तु" इति। अथ व्यवहितप्रयोगस्य वा पूर्वस्य प्रयोगस्य वा निवृत्त्यर्थं कस्मान्न भवति, यथा-- "कृञ्चानुप्रयुज्यते लिटि" (३।१।४०) इति? न; तयोरपीष्टत्वात्। इष्यते हि व्यवहितप्रोगः- लुनीहि लुनीहीत्यवायं देवदत्तो लुनाति। पूर्वप्रयोगोऽपीष्यते-- लुनाति देवदत्तो लुनीहि लुनीहीति। तस्माद्यथा विध्यर्थमेवेदं युक्तम्। ननु च"समुच्चये सामान्यवचनस्य" ३।४।५ इति धात्वन्तरस्य समानार्थस्य प्रयोगाभ्यनुज्ञानात् क्रियासमभिहारे यथाविध्यनुप्रयोगो भविष्यतीति, तत्किमनेन वचनेन? नैतदस्ति, समुच्चय एव हि नियमः स्यात्, क्रियासमभिहारे तु यथाविध्यनुप्रयोगः स्यात्, धात्वन्तरस्य च समानार्थस्य। तस्मादारब्धव्यमिदम्॥
तत्त्व-बोधिनी
पूर्वस्मिन् १४३८, ३।४।४

पूर्वस्मन् = क्रियासमभिहारविषये। अत्र सङ्ख्याकारकादीनां हिस्वान्तादप्रतीतेस्तद्बोधनायानुप्रयोगो न्यायत एव प्राप्तस्तदनुवादेन "यथाविधी"ति नियम्यते। तथा च पक्षे प्राप्तस्य नियमनाद्याहियाहीति गच्छतीत्यादि न भवति। यद्यप्यन्यत्र "हन्हपूषाऽर्यम्णां शौ" इत्यादौ नियमशब्देन परिसङ्ख्या व्यवह्यियते, "सर्वनामस्थाने चे"त्यादिना शौ तद्भिन्ने च दीर्घप्राप्तेशेरन्यत्र तु तन्निवृत्तिपरत्वात्, तथापीहकदाचिद्यातीत्यस्य कदाचिद्गच्छतीत्यस्यानुप्रयोगे प्राप्ते यथाविधीत्ययमप्राप्ताशंपरिपूरणाय "व्रीहीनवहन्ती"त्यादिवद्विधीयत इति नियमविधिरेवाऽयम्। एतेन मीमांसकप्रिसद्धनियमविधिः शब्दशास्त्रेऽप्रसिद्ध इति वदन्तः परास्ताः।

* क्रियासमभिहारे द्वे वाच्ये। द्वे वाच्ये इति। वार्तिकमिदं द्विरुक्तप्रक्रियायां व्याख्यातम्। इतिशब्दस्त्विति। ननु इतिशब्देन व्यवधानाद्यातीत्यस्याऽनुप्रयोगत्वं कथमिति चेत्। अत्राहुः--- अनुशब्दस्येहानुवादित्वमात्रपरत्वाद्व्यहितविपरीतप्रयोगयोरिष्टापत्तिः। एतच्च भाष्यकारीयोदाहरणसूत्रप्रत्याख्यानाभ्यां निर्णीयते। न च "समुच्चये सामान्यवचनस्ये"ति विशेषस्योक्तत्वात्सूत्रैकदेशस्य पूर्वस्मिन्नितिपदस्य वैयथ्र्यमस्तु नाम, "यथाविध्यनुप्रयोग" इति तु यथाविधीति नियमार्थं स्वीकर्तव्यमेव। अन्यथा "याहि याहीति गच्छती"त्यादि स्यादिति वाच्यम्, यस्माल्लोड्विधिस्तत्प्रकृतिकतिङन्तस्यैवोपस्थितत्वेनाऽनुप्रयोक्तुमर्हत्वान्न तूपस्थितपरित्यागेन य()त्कचिद्धातुप्रकृतितिङन्तस्याऽनुप्रोगार्हतेति। अतएव "स्वं रूपं शब्दस्ये"त्यपि सूत्रं प्रत्याख्यातं भाष्यकारेण। "अग्नेर्ढ"गित्यादौ विधिवाक्यगतस्याऽङ्गारवाचकाऽग्निशब्दादेरुपस्थितत्वात्तत्परित्यागेनाऽनुपस्थितवह्न्यादिशब्देभ्यो ढगादिर्न भवेदिति। एवं चाऽस्मिन्प्रत्याख्याते यथाविध्यनुप्रयोगसूत्रे मीमांसकप्रसिद्धनियमविधेः स्थितोदाहरणमन्यदन्वेषणीयमिति दिक्। एवमिति। याह#इयाहीति यातः, याहियाहीति यान्तीत्येवमूह्रमित्यर्थः। पक्षे इति। "वा च तध्वमो"रित्युक्तत्वाद्धिस्वाऽभावपक्ष इत्यर्थः। तध्वमोरित्यत्र तशब्देन मध्यमपुरुषबहुवचनं गृह्रते, "ध्वम्" साहचर्यात्। यद्यपि "ध्व"मित्यस्यात्मनेपदत्वमस्तीति तत्साहचर्येण प्रथमपुरुषैकवचनस्य ग्रहणं प्राप्नोति, तथापि बहुवचनत्वमध्यमत्वरूपधर्माभ्यां मध्यमपुरुषबहुवचनमेव गृह्रत इत्याशयेनोदाहरत--यातयातेति यूयमिति। अस्यापि लोटो लङ्()वत्त्वात् "तस्थस्थमिपा"मिति यातेत्यत्र थस्य तादेशः। विध्यादिलोड्विषये त्वनुप्रयोगेऽपि तु थस्य तादेशप्रवृत्तेर्यूयं यातेत्यनुप्रयोक्तम्। अधीध्वमधीद्वमिति। "सवाभ्या"मित्यम्। अधीध्वे इति। विध्यादिलोड्विषये तु सवाभ्यां वामाविति प्रवृत्तेरधीध्वमित्येवानुप्रयोक्तव्यम्। भावकर्मणोस्तु "भूयस्व--भूयस्वेति भूयते" "पच्यस्वपच्यस्वेति पच्यते" इत्याद्युन्नेयम्। "समुच्चयेऽन्यतरस्या"मिति सूत्रे क्रियासमभिहारैत्यननुवर्तनाद्द्वित्वमकृत्वैवोदाहरति---सक्तन् पिब धानाः खादेति। अब्यवहरथेति। विध्यादिलोड्विषये तु "अभ्यवहरते"त्यनुप्रोक्तव्यम्। एवमभ्यवहरध्वे इत्यत्राप्युक्तविषये अभ्यवहरध्वमित्यनुप्रयोक्तव्यम्। पक्षे हिस्वाव#इति। "पिब खादेत्यब्यवहरथ" "भुङ्क्ष्व आस्वादस्वेत्यभ्यवहरध्वे" इत्युदाहार्यम्। लवनादीति। आदिशब्देन-- मोषणहरणे ग्राह्रे। अनुवृत्त्यभ्युपगमे बाधकमाह-- लोडन्तस्योत। भ्रम एवेति। पुरुषांशे, वचनांशे च। लोडंशे तु प्रमैवेति भावः। एवमुक्तोदाहरणेषु हिस्वान्तेषु तिङन्तत्वं यथायथं परस्मैपदात्मनेपदान्तत्वं च सिद्धं। पुरुषवचनसंज्ञे तु विधानसामथ्र्याद्धिस्वयोर्न स्त इत्युक्तमिति सर्वेष्टसिद्धिः।

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणारणारविन्दसेवकज्ञानेन्द्र सरस्वती कृतौ सिद्धान्तकौमुदी व्याख्यायां तत्त्वबोधिन्याख्यायां तिङन्तकाण्डं समाप्तम्।