पूर्वम्: ३।४।२
अनन्तरम्: ३।४।४
 
सूत्रम्
समुच्चयेऽन्यतरस्याम्॥ ३।४।३
काशिका-वृत्तिः
सयुच्चये ऽन्यतरस्याम् ३।४।३

अनेकक्रियाध्याहारः समुच्चयः। समुच्चीयमानक्रियावचनाद् धातोरन्यतरस्यां लोट् प्रत्ययो भवति, तस्य लोटो हिस्वौ आदेशौ भवतः। तध्वंभाविनस्तु वा भवतः। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानम् अट इत्येव अयम् अटति, इमावटतः, इमे ऽटन्ति। भ्राष्ट्रमट, मठमट, खदूरम् अट, स्थाल्यपिधानम् अट इत्येव त्वम् अटसि, युवाम् अटथः, यूयम् अटथ। अथ वा, भ्राष्ट्रम् अटत, मठम् अटत, खदूरम् अटत, स्थाल्युपिधानम् अटत इत्येव यूयम् अटथ। भ्राष्ट्रम् अट, मठम् अट, खदूरम् अट, स्थाल्युपिधानम् अट इत्येव अहम् अटामि, आवाम् अटावः, वयम् अटामः। अथ वा, भ्राष्ट्रम् अटति, मठम् अटति, खदूरम् अटति, स्थाल्युपिधानम् अटति इत्येव अयम् अटति, इमा वटतः, इमे ऽटन्ति। भ्राष्ट्रम् अटसि, मठम् अटसि, खदूरम् अटसि, स्थाल्युपिधानम् अटसि, इत्येव त्वम् अटसि, युवाम् अटथः, यूयम् अटथ। भ्राष्ट्रम् अटामि, मठम् अटामि, खदूरम् अटामि, स्थाल्युपिधानम् अटामि इत्येव अहम् अटामि, आवाम् अटावः, वयम् अटाअमः। छन्दो ऽधीष्व, व्याकरणम् अधीष्व, निरुक्तम् अधीष्व इत्येव अयम् अधीते, इमावधीयाते, इमे ऽधीयते। छन्दो ऽधीष्व, व्याकरणम् अधीध्वम् इत्येव यूयम् अधीध्वे। छन्दो ऽधीष्व, व्याकरणम् अधीष्व, निरुक्तम् अधीष्व इत्येव अहम् अधीये, आवाम् अधीवहे, वयम् अधीमहे। अथ वा, छन्दो ऽधीते, व्याकरणम् अधीते, निरुक्तमधीते, इत्येव अयम् अधीते, इमावधीयाते, इमे ऽधीयते। छन्दो ऽधीषे, व्याकरणम् अधीषे, निरुक्तम् अधीषे इत्येव त्वम् अधीषे, युवाम् अधीयाथे, यूयम् अधीध्वे। छन्दो ऽधीये, व्याकरणम् अधीये, निरुक्तम् अधीये इत्येव अहम् अधीये, आवाम् अधीवहे, वयम् अधीमहे।
न्यासः
समुच्चयेऽन्यतरस्याम्। , ३।४।३

"अनेकक्रियाध्याहारः" इति। अनेकासां क्रियाणां चीयमानतेत्यर्थः। एतेन समभिहारात् समुच्चयस्य भेदं दर्शयति। समभिहारोऽपि पौनःपुन्यम्, भृशार्थो वा, स चैकस्या एव क्रियायाः सम्भवः। समुच्चयः पुनरनेकासां क्रियाणाम्। "भाष्ट्रमट"इति। "अतो हेः" ६।४।१०५ इति लुक्। अत्र साधनभेदाद्भेदमुपागतानामनकासामटनक्रियाणां समुच्चयः। "अथ वा" इत्यादि। प्रथमेनाथ वेतिग्रहणेन "वा च तध्वमोः" ३।४।२ इति वाग्रहणप्रतिपादितं विकल्पं दर्शयति, द्वितीयेनान्यतरस्यां ३।४।३ ग्रहणप्रतिपादितम्॥
बाल-मनोरमा
समुच्चयेऽन्यतरस्याम् ६४८, ३।४।३

समुच्चये। समभिहार इति पदरहितं "क्रिया, लोट् लोटौ हिस्वौ वा च तध्मो"रिति पूर्वसूत्रमनुवर्तते। क्रियेति लुप्तषष्ठीबहुवचनान्तं समुच्चय इत्यत्रान्वेति। तदाह-- अनेकक्रियासमुच्चये द्योत्ये इति। एवं च कारकसमुच्चयमाश्रित्य नाऽस्य प्रवृत्तिः। प्रागुक्तमिति। धातोर्लोट्, तस्य हिस्वौ प्रसिद्धहिस्वधर्मकौ तध्मोर्विषये वा इत्युक्तमित्यर्थः। यथाविध्यनुप्रयोगः। "क्रियासमभिहारे" इति, "समुच्चयेऽन्यतरस्या"मिति च लोड्विधी उक्तौ, तयोर्मध्ये यत्पूर्वसूत्रं "क्रियासमभिहारे" इति, तदेतत्पूर्वशब्देन परामृश्यते। तदाह--- आद्ये लोड्विधाते इति। विधिमनतिक्रम्य यथाविधि। यस्याः प्रकृतेर्लोड()?विहितस्तस्या अनुप्रयोग इति लभ्यते। तदाह-- लोट्प्रकृतिभूत एवेति। अत्राऽनुप्रयोगः पश्चात्प्रयोगः, न त्वव्यवहितत्वं विवक्षितम्, लुनीहि "लुनीहीत्येवायं लुनाती"ति भाष्यप्रोगाल्लिङ्गात्।

तत्त्व-बोधिनी
समुच्चयेऽन्यतस्याम् ५३९, ३।४।३

समुच्चये। चिनोतेर्भावे "एरच्" इत्यच्। प्रगुक्तमिति। धातोर्लोट्, लोटो हिस्वौ तध्वमोर्विषये वेत्यर्थः। यथाविध्यनु।