पूर्वम्: ३।४।३९
अनन्तरम्: ३।४।४१
 
सूत्रम्
स्वे पुषः॥ ३।४।४०
काशिका-वृत्तिः
स्वे पुषः ३।४।४०

करणे इत्येव। स्वे इत्यर्थग्रहणम्। स्ववाचिनि करणे उपपदे पुषेर् धातोः णमुल् प्रत्ययो भवति। आत्मीयज्ञातिधनवचनः स्वशब्दः। स्वपोषं पुष्णाति। आत्मपोषम्। गोपोषम्। पितृपोषम्। मातृपोषम्। धनपोषम्। रैपोषम्।
न्यासः
स्वे पुपः। , ३।४।४०

"स्वपोषम्" इति। आत्मवाचिनी स्वशब्द उपपदे प्रत्ययः। "गोपोषम्" इति। आत्मीयवाचिनि। "धनपोषम्" इति धनवाचिनि। "पितृपोषम्" इति ज्ञातवाचिनि॥