पूर्वम्: ३।४।३८
अनन्तरम्: ३।४।४०
 
सूत्रम्
हस्ते वर्त्तिग्रहोः॥ ३।४।३९
काशिका-वृत्तिः
हस्ते वर्तिग्रहोः ३।४।३९

करणे इत्येव। हस्ते इत्यर्थग्रहणम्। वर्तिः ण्यन्तः। हस्तवाचिनि करणे उपपदे वर्तयतेः गृह्णातेश्च णमुल् प्रत्ययो भवति। हस्तेन वर्तयति, हस्तवर्तं वर्तयति। करवर्तम्। पाणिवर्तम्। ग्रहेः खल्वपि हस्तेन गृह्णाति, हस्तग्राहं गृह्णाति। करग्राहम्। पाणिग्राहम्।
न्यासः
हस्ते वर्त्तिग्रहोः। , ३।४।३९

"वर्त्तिण्र्यन्तः" इति। निर्देशादेव वर्तेण्र्यन्तत्वं प्रतीयते॥
तत्त्व-बोधिनी
हस्ते वर्तिग्रहोः १६२०, ३।४।३९

हस्ते। हस्त इत्यर्थग्रहणं, तदाह-- हस्तार्थे इति।