पूर्वम्: ३।४।४८
अनन्तरम्: ३।४।५०
 
सूत्रम्
सप्तम्यां चोपपीडरुधकर्षः॥ ३।४।४९
काशिका-वृत्तिः
सप्तम्यां च उपपीडरुधकर्षः ३।४।४९

उपशब्दः प्रत्येकम् अभिसम्बध्यते। उपपूर्वेभ्यः पीडरुधकर्षेभ्यः सप्तम्यन्ते उपपदे, चकारात् तृतीयान्ते उपपदे, णमुल प्रत्ययो भवति। पार्श्वोपपीडं शेते, पार्श्वयोरुपपीडम्, पार्श्वाभ्याम् उपपीडम्। व्रजोपरोधं गाः स्थाप्यति, व्रजे उपरोधम्, व्रजेनोपरोधम्। पाण्युपकर्षं धानाः संगृह्णाति, पाणावुपकर्षम्, पाणिनोपकर्षम्। कर्षतेरिदं ग्रहणं न कृषतेः।
न्यासः
सप्तम्यां चोपपीजरुधकर्षः। , ३।४।४९

"उपशब्दः प्रत्येकमभिसम्बध्यते" इति। रुधिकषिभ्यामुपपूर्वाभ्यामेव यथा स्यात्। "पार्(ाओपपीडम्" इति। "पीड अवगाहने" (धा।पा।१५४४), चुरादिः। "कर्षतेः" इत्यादि। "कृष विलेखने" (धा।पा।९९०, १२८६) भ्वादौ तुतादौ च पठ()ते, तत्रेह भौवादिकस्य ग्रहणम्, न तौदादिकस्य; शपा निर्देशात्। शपा निर्देशस्तस्य कृतगुणस्योच्चारणाल्लभ्यते॥
तत्त्व-बोधिनी
सप्तम्यां चोपपीडरुधकर्षः १६२५, ३।४।४९

सप्तम्यां चो। उपपूर्वेभ्य इति। सूत्रे पीडादीनां समाहारद्वन्द्वं कृत्वा उपपूर्वः पीडरुधकर्ष इति उत्तरपदलोपी समास इति भावः। इह सौत्रं पुंस्त्वं, पञ्चम्यर्थे प्रथमेति च ज्ञेयम्। कर्षेति शपा निर्देशः, कृष विलेखने इत्यस्य गुणसहितस्योच्चारणात्। तत्फलं तुदादेव्र्युदासः। यद्यपि विलेखन एव सोऽपि पठ()ते तथापि क्षेत्रविषयकविलेखन एव स प्रयुज्यते। पञ्चभिर्हलैः कर्षतीति दर्शनात्। एवं च तौदादकात् कृषेः क्त्वाप्रत्यय एव भवति, क्षेत्रे उपकृष्य, हलेनोपकृष्येति, न त्विह णमुलिति स्थितमाकरे।