पूर्वम्: ३।४।४७
अनन्तरम्: ३।४।४९
 
सूत्रम्
हिंसार्थानां च समानकर्मकाणाम्॥ ३।४।४८
काशिका-वृत्तिः
हिंसाऽर्थानां च समानकर्मकाणाम् ३।४।४८

तृतीयायाम् इत्येव। हिंसा प्राण्युपघातः। तदर्थानां धातूनाम् अनुप्रयोगधातुना समानकर्मकाणां तृतीयान्ते उपपदे णमुल् प्रत्ययो भवति। दण्डोपघातं गाः कालयति, दण्डेनोपघातम्। दण्डताडम्, दण्डेन ताडम्। समानकर्मकाणाम् इति किम्? चोरं दण्डेनोपहत्य गोपालको गाः कालयति।
न्यासः
हिंसार्थाञ्च समानसकर्मकाणाम्। , ३।४।४८

धातुसम्बन्धाधिकारादनुप्रयोगेण भवितव्यम्, द्विष्ठत्वात्। तत्र प्रत्यासत्तेरनुप्रयोगधात्वपेक्षयैव समानकर्मत्वं विज्ञायत इत्याह-- "अनुप्रयोगधातुना" इत्यादि। "कालयति" इति। "{वेल कालोपदेशे (काल इति पृथग्धातुरित्येके)-धा।पा। कल क्षेपे-धा।पा।} काल विक्षेपे (धा।पा।१८८०)। "दन्तताडम्" इति। "तड आघाते" (धा।पा।१५७९), चुरादिरेव। "दण्डेनाहत्य" इत्यादि। अत्र हन्तेश्चौरः कर्म , अनुप्रयोगधातोश्च गौरिति समानकर्मकत्वाभावः। तेन क्त्वाप्रत्यय एव भवति। "आहत्य" इति। "अनुदात्तोपदेश" ६।४।३७ इत्यादिनाऽनुनासिकलोपः, "ह्यस्वस्य पिति कृति तुक्" ६।१।६९
तत्त्व-बोधिनी
हिंसार्थानां च समानकर्मकाणाम् १६२४, ३।४।४८

कालयतीति। कल विक्षेपे चुरादिः। प्रेरयतीत्यर्थः। दण्डताडमिति। तड आघाते। अयमपि चुरादिरेव।