पूर्वम्: ३।४।५२
अनन्तरम्: ३।४।५४
 
सूत्रम्
द्वितीयायां च॥ ३।४।५३
काशिका-वृत्तिः
द्वितियायां च ३।४।५३

परीपसायाम् इत्येव। द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोः णमुल् प्रत्ययो भवति। यष्टिग्राहं युध्यन्ते, यष्टिं ग्राहम्। लोष्टग्राहम्, लोष्टं ग्राहम्। एवं नाम त्वरते यदायुधग्रहणम् अपि न अद्रियते। लोष्तादिकं यत् किंचिदासन्नं तद् गृह्णाति।
न्यासः
द्वितीयायाश्च। , ३।४।५३

तत्त्व-बोधिनी
द्वितीयायां च १६२८, ३।४।५३

द्वितीयायां। परीप्सायामित्येवेति। कथं तर्हि "अनुदात्तं पदमेकवर्ज"मिति, नह्रत्र त्वरा गम्यते?। अत्राहुः- अस्यां हि परिभाषायां त्वरा विवक्षिता। तेनयमर्थः--उदात्तः स्वरितो वा यत्र विधीयते तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदात्तं कर्तव्यं, न विलम्बतिव्यमिति। यष्टिग्राहमित्यादि। एवं खलु युद्धाय त्वरन्ते यदासन्नं यष्ट()आदिकमपि गृहीत्वा धावन्ति नायुधं प्रतीक्षन्त इति भावः।