पूर्वम्: ३।४।५३
अनन्तरम्: ३।४।५५
 
सूत्रम्
स्वाङ्गेऽध्रुवे॥ ३।४।५४
काशिका-वृत्तिः
स्वाङ्गे ऽध्रुवे ३।४।५४

द्वितीयायाम् इत्येव। अग्रुवे स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोः णमुल् प्रत्ययो भवति। अक्षिनिकाणं जल्पति। भ्रूविक्षेपं कथयति। अघ्रुवे इति किम्? उत्क्षिप्य शिरः कथयति। यस्मिनङ्गे छिन्ने ऽपि प्राणी न म्रियते तदघ्रुवम्। अद्रवम् मूर्तिमत् स्वाङ्गम्।
न्यासः
स्वाङेऽध्रुवे। , ३।४।५४

स्वाङ्गलक्षणमद्रवादि चतुर्थे वक्ष्यति। "अक्षिनिकाणम्" इति। "कण निमीलने" (धा।पा।१७१५), चुरादिर्निपूर्वः। "यस्मिन्नङ्गेच्छिन्ने प्राणी न म्रियते तद्ध्रतम्" इति। पाणिपादादिकम्। अध्रुवत्वं पुनस्तस्य जीवत्यपि प्राणिनि कदाचिदभावात्। यस्मिस्त्वङ्गे च्छिन्ने प्राणी म्रियते तद्()ध्रुवम्, शिरःप्रभृति। ध्रुवत्वं पुनस्तस्य सदा प्राणिनि सन्निवेशात्॥