तूष्णींशब्दे उपपदे भवतेः धातोः क्त्वाणमुलौ प्रत्ययौ भवतः। तूष्णींभूय गतः, तूष्णीं भूत्वा, तूष्णींभावम्। भूग्रहणं कृञो निवृ̄त्त्यर्थम्।
ननु च "स्वाङ्गे तस्प्रत्यये कृभ्वोः"
३।४।६१ इत्यतो भूग्रहणमनुवत्र्तत एव,
तत् किमर्थं भुव इतीहोच्यते? इत्याह-- "भूग्रहणम्" इत्यादि। पूर्व हि भूग्रहणं कृञा सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्; अतस्तन्निवृत्यर्थं पुनरिह भूग्रहणम्॥