पूर्वम्: ३।४।६०
अनन्तरम्: ३।४।६२
 
सूत्रम्
स्वाङ्गे तस्प्रत्यये कृभ्वोः॥ ३।४।६१
काशिका-वृत्तिः
स्वाङ्गे तस्प्रत्यये कृभ्वोः ३।४।६१

तस्प्रत्ययो यतः स्वाङ्गात् तदेवम् उच्यते। तस्प्रत्यये स्वाङ्गवाचिनि उपपदे करोतेः भवतेश्च धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः। यथासङ्ख्यम् अत्र नेष्यते, अस्वरितत्वात्। मुखतःकृत्य गतः, मुखतः कृत्वा गतः, मुखतःकारं गतः। मुखतोभूय तिष्ठति, मुखतो भूत्वा तिष्ठति, मुखतोभावं तिष्ठति। पृष्ठतःकृत्य गतः, पृष्ठतः कृत्वा गतः, पृष्ठतः कारं गतः। पृष्ठतोभूय गतः, पृष्ठतो भूत्वा, पृष्ठतोभावम्। स्वाङ्गे इति किम्? सर्वतः कृत्वा गतः। तस्ग्रहणं किम्? मुखीकृत्य गतः। मुखीभूय गतः। प्रत्ययग्रहणं किम्? मुखे तस्यति इति मुखतः, मुखतः कृत्वा गतः।
न्यासः
स्वाङ्गे तस्प्रत्यये कृभ्वोः। , ३।४।६१

"यथासंख्यमत्र नेष्यते" इति। कथं पुनरिष्यमाणमपि न भवति, यावता द्वे प्रकृती, प्रत्ययावपि द्वावेवेत्यस्ति यथासंख्यप्राप्तिनिमित्तम्? "कृभ्वोः" इति निर्देशाल्लक्षमव्यभिचारचिह्नात्। इह प्रत्यये विधीयमाने "परश्च" ३।१।२ इति सम्बन्धाद्दिग्योगलक्षणया पञ्चम्या भवितव्यम्, ततर् कृभूभ्यामिति पञ्चमीनिर्देशे कत्र्तव्ये योऽयं "कृभ्वोः" इति निर्देशाल्लक्षणव्यभिचारचिह्नात्। इह प्रत्यये विधीयमाने "परश्च" ३।१।२ इति सम्बन्धाद्दिग्योगलक्षणया पञ्चम्या भवितव्यम्, तत्र कृभूभ्यामिति पञ्चमीनिर्देशे कत्र्तव्ये योऽयं "कृभ्वोः" इति षष्ठीनिर्देशः स लक्षणव्यभिचारचिह्नम्, तेन यथासख्याभाव इति वेदितव्यम्। "मुखतः" इति। "अपादाने चाहीयरुहोः" ५।४।४५ इति तसिः। "मुखीकृत्य" इति। अत्र मुखशब्दश्च्व्यन्तः। "अभूततद्भावे" ५।४।५० इत्यादिना च्विः, "अस्य च्वौ" ७।४।३२ इतीत्त्वम्। "मुखे तस्यति" इति। "तसु उपक्षये", (धा।पा।१२१२) "अन्येभ्योऽपि दृश्यते" ३।२।१७८ इति क्विप्, हल्ह्रादिना ६।१।६६ सुलोपः, रुत्वविसर्जनीयौ। धातुरत्र तस्()शब्दः, न तु प्रत्ययः। तेन तदन्त डपदेशे क्त्वाणमुलौ न भवतः, "समानकर्त्तृकयोः" ३।४।२१ इति क्त्वैव भवति॥
तत्त्व-बोधिनी
स्वाङ्गे तस्प्रत्यये कृभ्वोः १६३३, ३।४।६१

स्वाङ्गे। तस्प्रत्ययो यस्मात्तस्प्रत्ययस्तस्मिन्स्वाङ्गे उपपदे इत्येके। प्रत्ययग्रहणपरिभाषया तस्प्रत्ययान्ते स्वाङ्गे इत्यन्ये। तस् चासौ प्रत्ययश्चेति कर्मधारयः। तस्प्रत्यये परतो यत्स्वाङ्गं तस्मिन्नुपपद इति तु प्राञ्चः। तत्र यद्यपि स्वाङ्गमात्रं नोपपदं तथापि तस्मिन्नित्येतत्प्रकृतिप्रत्ययसमुदायपरिमिति बोध्यम्। मुखतःकारं मुखतोभूयेति। क्त्वाणमुलोः कृभुवोश्च यथासङ्ख्यं नेष्यतत इति भावः। मुखत इत्यत्राद्यादित्वात्सप्तम्यर्थे तसिः। प्रत्ययग्रहणं किम्?। मुके तस्यति मुखतः। तसु उपक्षये क्विप्। धातुत्वादिह "अत्वसन्तस्ये"ति दीर्घो न। मुखतः कृत्वा गत इति काशिकादौ स्थितम्। वस्तुतस्तु प्रत्ययाऽप्रत्ययपरिषाषायैवेष्टसिद्धेः प्रत्ययग्रहणं सुत्यजम्।