पूर्वम्: ३।४।६४
अनन्तरम्: ३।४।६६
 
सूत्रम्
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्॥ ३।४।६५
काशिका-वृत्तिः
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ३।४।६५

शकाऽदिषु उपपदेषु अस्त्यर्थेषु वा धातुमात्रात् तुमुन् प्रत्ययो भवति। अत्रियार्थोपपदार्थो ऽयम् आरम्भः। शक्नोति भोक्तुम्। धृष्णोति भोक्तुम्। जानाति भोक्तुम्। ग्लायति भोक्तुम्। घटते भोक्तुम्। आरभते भोक्तुम्। लभते भोक्तुम्। प्रक्रमते भोक्तुम्। सहते भोक्तुम्। अर्हति भोक्तुम्। अस्त्यर्थेषु खल्वपि अस्ति भोक्तुम्। भवति भोक्तुम्।
न्यासः
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्। , ३।४।६५

ननु च "तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्" ३।३।१० इत्येवं शकादिषूपपदेषु तुमुन् सिद्धः, तत् किमर्थोऽयमारम्भ इत्याह-- "अक्रियार्थोऽयमारम्भः" इति। अक्रियार्थेष्वपि शकादिषु तुमुन् यथा स्यादित्येवमर्थोऽयमारम्भः। न हि शक्नोति भोक्तुमित्यादौ क्रियार्थोपपदं गम्यते। किं तर्हि? अर्थान्तरम्, अन्यदेव। इह तावत्-- "शक्नोति भोक्तुम्, उत्सहते भोक्तुम्, जानाति भोक्तुम्" इति प्रावीण्यं गम्यते। "ग्लायति भोक्तुम्" इति तदशक्तता गम्यते, "घटयति भोक्तुम्, अर्हति भोक्तुम्" इति तद्योग्यतामात्रम्। "आरभते भोक्तुम्, प्रक्रमते भोक्तुम्" इति भुजेरेवाद्यावस्थानक्रियान्तरम्। "लभते भोक्तुम्" इति प्रत्याख्यानम्। "अस्ति भोक्तुम्" इत्यादौ सम्भवमात्रम्॥
तत्त्व-बोधिनी
शकधृषज्ञाग्लाघटरभलभक्रमसाहर्हास्त्यर्थेषु १५१०, ३।४।६५

शकधृष। अयमप्यक्रियार्थोपपदार्थ आरम्भः। "भोक्तुं शक्नोति जानाती"त्यत्र हि भुज्यर्थो विषयतया संबध्यते, नैपुण्यं च गम्यते। ग्लायति भोक्तुमित्यत्र भोजनविषयिण्यशक्तिर्गम्यते। "भोक्तुं घटते" इत्यत्र तु भोक्तुमर्हतीति योग्यता। "आरभते भोक्तु"मित्यत्र भोक्तुं प्रक्रमते = उत्सहते इति भुजेराद्यावस्था। "लभते इत्यत्राऽप्रत्याख्यानम्। "अस्ति भोक्तु"मित्यादौ तु संभवमात्रम्।