पूर्वम्: ३।४।६५
अनन्तरम्: ३।४।६७
 
सूत्रम्
पर्याप्तिवचनेष्वलमर्थेषु॥ ३।४।६६
काशिका-वृत्तिः
पर्याप्तिवचनेष्वलमर्थेषु ३।४।६६

पर्याप्तिः अन्यूनता। पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोस्तुमुन् प्रत्यओ भवति। पर्याप्तो भोक्तुम्। अलं भोक्तुम्। भोक्तुं पारयति। पर्याप्तिवचनेषु इति किम्? अलं कृत्वा। अलमर्थेषु इति किम्? पर्याप्तं भुङ्क्ते। पूर्वसूत्रे शकिग्रहणम् अनलमर्थम्, शक्यम् एवं कर्तुम् इति।
न्यासः
पर्याप्तिवचनेष्वलमर्थेषु। , ३।४।६६

"पर्याप्तिरन्यूनता" इति। परिपूर्णतेत्यर्थः। "अलमर्थविशिष्टेषु" इति। यद्यपि भूषणादयोऽलमर्थाः, तथापि पर्याप्तिवचने सामर्थ्येमेव सम्भवतीति तदेव गृह्रते। प्रयोगदर्शनार्थबोधेन व्याख्यानतो वा। तेनालमर्थविशिष्टेष्वित्ययमर्थो भवति। यद्येवम्, सामर्थ्येष्वित्येवं कस्मान्नक्तम्? नैवं शक्यम् ; एवं ह्रुच्यमाने सामर्थ्येन भुङ्क्ते, बलेन भुङ्क्त इत्यादावपि स्यात्। यथान्यासे तु न दोषः; न ह्रत्र पर्याप्तिर्दृश्यते। किं तर्हि? सौकर्यम्। सुकरमेतदित्यर्थः। यथाविध्यस्य सम्भवमात्रं विवक्षितम्, सम्भवत्येवंविधस्य करणमित्यर्थः॥