पूर्वम्: ३।४।७२
अनन्तरम्: ३।४।७४
 
सूत्रम्
दाशगोघ्नौ सम्प्रदाने॥ ३।४।७३
काशिका-वृत्तिः
दाशगोघ्नौ सम्प्रदाने ३।४।७३

दाशगोघ्नौ शब्दौ संप्रदाने कारके निपात्येते। दाशृ दाने, ततः पचाद्यच्। स कृत्संज्ञकत्वात् कर्तरि प्राप्तः, सम्प्रदाने निपात्यते। दाशन्ति तस्मै इति दाशः। आगताय तस्मै दातुं गां हन्ति इति गोघ्नः, अर्घार्हो ऽतिथिः। टगत्र निपात्यते। निपातनसामर्थ्यादेव गोघ्नः ऋत्विगादिरुच्यते, न तु चण्डालादिः। असत्यपि च गोहनने तस्य योग्यतया गोघ्नः इत्यभिधीयते।
न्यासः
दाशगोघ्नौ सम्प्रदाने। , ३।४।७३

"गोघ्नः" इति। स एव हन्तेः पचाद्यच्। सम्प्रदानेऽच् निपात्यते, उपधालोपश्च। अथ वा-- टक्()प्रत्ययो निपात्यते, उपधालोपश्च "गमहन" ६।४।९८ इत्यादिनैव सिद्धः, "हो हन्तेः" ७।३।५४ इत्यादिना कुत्वम्। यदि सम्प्रदाने "गोघ्नः" इति निपात्यते, ततश्चाण्डालादेरपि तेनाभिधानं प्राप्नोति; यस्मात् तस्मै अपि ये ह्रागताय दातुं घ्नन्ति तेऽपि सुकृत इत्यत आह-- "निपातनसामथ्र्यात्" इत्यादि। यथैव ह्रत्र निपातनसामथ्र्यात् किञ्चिदलाक्षणिकं कार्यं लभ्यते तथाऽर्थविशेषोऽपि। तस्माद्यद्यपि "गोघ्नः" इत्यविशेषेण निपात्यते, तथापि विशिष्टस्यैव। तेन ऋत्विगादेरभिधानम्, नान्यस्य चाण्डालादेः। यदा तर्हि दातुं हन्यते तदा तस्य गोघ्न इत्यभिधां न प्राप्नोतीत्यत आह-- "असत्यपि" इत्यादि। यथा ह्रपचन्नपि योग्यतया पाचक इत्युच्यते, तथाऽसत्यपि गोहनने गोघ्न इति॥