पूर्वम्: ३।४।७३
अनन्तरम्: ३।४।७५
 
सूत्रम्
भीमादयोऽपादाने॥ ३।४।७४
काशिका-वृत्तिः
भीमाऽदयो ऽपादाने ३।४।७४

भीमादयः शब्दा अपादाने निपात्यन्ते। उणादिप्रत्ययान्ता एते, इषियुधीन्धिदसिश्याधूसूभ्यो मक्, भियष्षुक् ग्रस्वश्च इत्येवम् आदयः। ताभ्याम् अन्यत्रौणादयः ३।४।७५ इति पर्यदासे प्राप्ते निपातनम् आरभ्यते। भीमः। भीष्मः। भयानकः। वरुः। भूमिः। रजः। संस्कारः। संक्रन्दनः। प्रपतनः। समुद्रः। स्रुचः। स्रुक्। खलतिः।
न्यासः
भीमादयोऽपादाने। , ३।४।७४

"{उणादिप्रत्ययान्ता एते-- काशिका"} ऊणादिप्रत्यया एते"। इति। उणादयः प्रत्यया येषां ते तथोक्ताः। के पुनस्त उणादयः प्रत्ययाः? इत्यत आह-- "श्याधूसूभ्यो मक्" इत्यादि। आदिशब्देन मङ्क्वन्नादीनां ग्रहणम्। यदि तर्ह्रुणादिप्रत्यया एते, एवं सत्युणादिप्रत्ययानां रूढिशब्दात् क्रियाकारकसम्बन्धाभावादपादाने वृत्तिर्न सम्भवत्येव? नैष दोषः; रूढिशब्देष्वपि केषाञ्चित् क्रियाकारकसम्बन्धोऽस्त्येव, यथा-- तैलपायिकादिषु। अतोऽदेश्यमेतत्। "ताभ्याम्" इत्यादि। ननु चासत्यस्मिन् सूत्रे ताभ्यामित्येष निर्देशो नोपपद्यते; अपादानस्याप्रकृतत्वात्, तत्कुतः पर्युदासस्य प्रसङ्गः? नैष दोष-; अर्थकत्वमेतत्। अस्मिन् ह्रसति तत्रैवं सूत्रं कत्र्तव्यम्-- ततोऽपादानाच्चान्यत्रोणादय इति। तथा च यदीदं नोच्येत,तदा स्यादेव पर्युदासः॥
तत्त्व-बोधिनी
भीमादयोऽपादाने १५०७, ३।४।७४

भीमः। भीष्म इति। "भियो हेतुभये षु"गिति मप्रत्ययसंनियोगेन वैकल्पिकः षुक्। प्रस्कन्दत्स्मादिति प्रस्कन्दनः। अपादाने ल्युट्। प्ररक्षत्यस्मादिति प्ररक्षः। पचाद्यच्। मुह्रत्यस्मादिति मूर्खः। "मुहेः खो मूर्च"। स्खलत्यस्मादिति खलतिर्निष्केशशिरा इति प्रागुक्तम्।

ताभ्यामितीति। "ताभ्या"मित्यनुक्तौ तु सन्निहिताऽपादानस्यैव परामर्शादपादानादन्यत्रेत्यर्थः स्यादिति भावः। ततोऽसाविति। तनोतेः कर्तरि क्तः। "अनुदात्तोपदेशे"त्यनुनासकिलोपः। असौ ततो भवति = विस्तृतो भवतीत्यर्थे तनोतेस्तुन्। वृत्तमिति। गमनादिना निष्पन्नं यत्तद्वत्र्म। वृतेः कर्मणि मनिन्। "अयनं वत्र्ममार्गाऽध्वे"त्यमरः।