पूर्वम्: ३।४।७६
अनन्तरम्: ३।४।७८
 
प्रथमावृत्तिः

सूत्रम्॥ लस्य॥ ३।४।७७

पदच्छेदः॥ लस्य ६।१ ११७

अर्थः॥

इतः अग्रे आतृतीयाध्यायपरिसमाप्तेः (३।४।११७) वक्ष्यमाणानि कार्याणि लकारस्य एव स्थाने भवन्ति इति अधिकारः वेदितव्यः। लस्य इति सामान्यस्य निर्देशस्तेन लकारमात्रस्य ग्रहणं भवति। लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लुङ्, लृङ् इत्येतेषां दशलकाराणाम्।

उदाहरणम्॥

अग्रे उदाहरिष्यामः
काशिका-वृत्तिः
लस्य ३।४।७७

लस्य इत्ययम् अधिकारः। अकार उच्चारनार्थः। लकारमात्रं स्थानित्वेन अधिक्रियते। यदिति ऊर्ध्वम् अनुक्रमिष्यामः लस्य इत्येवं तद् वेदितव्यम्। किं च इदं लस्य इति? दश लकारा अनुबन्धविशिष्टा विहिता अर्थविशेषे कालविशेषे च। तेषां विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं तद् गृह्यते। षट् टितः, चत्वारः ङितः। अक्षरसमाम्नायवदानुपूर्व्या कथ्यन्ते। लट्। लिट्। लुट्। लृट्। लेट्। लोट्। लङ्। लिङ्। लुङ्। लृङ्। इति। अथ लकारमात्रस्य ग्रहणम् कस्मान् न भवति, लुनाति, चूडालः इति? धात्वधिकारो ऽनुवर्तते, कर्त्रादयश्च विशेषकाः।
बाल-मनोरमा
लस्य ४, ३।४।७७

लस्य। "धातो"रित्यधिकृतम्। अकारो न विवक्षितः। तेन लिडादीनामपि सङ्ग्रहः। "चूडाल" इत्यादौ च नातिप्रसङ्गः।

तत्त्व-बोधिनी
लस्य ४, ३।४।७७

वणग्रहणे प्रत्ययग्रहमपरिभाषा, अर्थवद्ग्रहणपरिभाषा च न प्रवर्तते इति लुनाति, चूडाल इत्यादौ तिबाद्यादेशः कुतो न भवतीति चेत्?। अत्राहुः--- "लः कर्मणी"ति सूत्रे निर्दिष्टानां कत्र्राद्यर्थानामनुवृत्तेः कत्र्राद्यर्थे विहितस्य लकारस्य ग्रहणमिति। अतोऽपि तिबाद्यादेशानुवादेन कत्र्राद्यर्थ विधिरिति कल्पना निरस्ता। लस्थानिकतिबादीनां कत्र्राद्यर्थर्थे विहितस्य लस्य तिबादिविधानमित्यन्योन्याश्रयापत्तेः। द्वा धातोरित्यधिकाराद्धातोर्विहितस्यैव लस्येह ग्रहणमिति नोक्ताऽतिप्रसङ्गः। लस्येत्संज्ञा तु न भवति, फलाऽभावात्। न च लित्स्वरः फलं, णलो लित्त्वेन तदभावस्य ज्ञापनात्। नाप्यश्रवणमेव फलं, तदुच्चारणस्यानर्थक्यापत्तेः, आदेशविधिनैवाऽश्रवणलाभाच्च। लसय् तिबादिस्थानित्वाभ्युपगमे तु "लः परस्मैपद"मित्यादि स्वरसतः सङ्गच्छत इति दिक्।