पूर्वम्: ३।४।७५
अनन्तरम्: ३।४।७७
 
सूत्रम्
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः॥ ३।४।७६
काशिका-वृत्तिः
क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ३।४।७६

द्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः इति स्वनिकायप्रसिद्धिः। ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सो ऽधिकरणे भवति। चकाराद् यथाप्राप्तं च। ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभावाधिकरनेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेसु। भ्रौव्यार्थेभ्यः तावत् आसितो देवदत्तः, आसितं तेन, इदम् एषाम् आसितम्। गत्यर्थेभ्यः यातो देवदत्तो ग्रामम्, यातो देवदत्तेन ग्रामः, यातं देवदत्तेन, इदम् एषां यातम्। प्रत्यवसानार्थेभ्यः भुक्तः ओदनो देवदत्तेन, देवदत्तेन भुक्तम्, इदम् एषां भुक्तम्। कथं भुक्ता ब्राह्मणाः, पीता गावः इति। अकारो मत्वर्थीयः, भुक्तम् एषाम् अस्ति, पीतम् एषाम् अस्ति इति।
न्यासः
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः। , ३।४।७६

ननु च नेयं लोके प्रसिद्धिः -- ध्रौव्यार्था अकर्मकाः, प्रत्यवसानार्था अब्यवहार्था इति, तत्कथमयमर्थो लभ्यते? इत्यत आह-- "स्वनिकायप्रसिद्धिः" इति। स्वनिकायः = वैयाकरणसङ्घः, तत्रेयं प्रसिद्धिः। "कर्त्तृभावाधिकरणेषु" इति। भावकर्मणोः "तयोरेव" ३।४।७० इत्यादिना। "इदमेषाम्" इति। "अधिकरणवाचिनाम्" २।३।६८ इति षष्ठी। "कथम्" इत्यादि। "भुक्ता ब्राआहृणाः, पीता गावः" इति। कत्र्तरि निष्ठा, अन्यथाऽनभिहितत्वात् कर्त्तुब्र्राआहृणशब्दाद्गोशब्दच्च कत्र्तरि तृतीया स्यात्। न प्रत्यवसानार्थेभ्यः केनचित् कत्र्तरि क्तो विहितः, तत्कथमेतौ सूत्रादनन्तरमिदं कस्मान्न पठ()ते, एकः एवं सति गुणो भवति, द्विः क्तग्रहणं न कत्र्तव्यं भवति। तदेवं वक्तव्यम् --आदिर्मणि क्तः कत्र्तरि च, ततः श्लिषशीङस्थासवजनरुहजीर्यतिभ्यश्च, ततोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य इति, एवञ्च द्विः क्तग्रहणं गत्यर्थाकर्मकग्रहणञ्च न कत्र्तव्यं भवति? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने यथा ध्रौव्यार्थेभ्यः कत्र्तरि क्तो भवति, तथा प्रत्यवसानार्थेभ्योऽपि स्यात्, स च नेष्यते। तस्माद्यथान्यासमेवास्तु॥ "अकार उच्चारणार्थः" इति। एतेनानुबन्धशङ्कां निराकरोति। अनुबन्धे ह्रस्मिन्नकारानुबन्धविशिष्टयोरेव लङलटोग्र्रहणं स्यात्, नान्येषां लिडादीनाम्। "अर्थविशेषे"इति। कर्त्तृकर्मादौ"। "कालविशेषे" इति। वत्र्तमानादौ। "अक्षरसमाम्नायवत्" इति। यथाऽक्षरसमाम्नाये प्रत्याहारेऽकारादयो वर्णा आनुपूव्र्या कथ्यन्ते, तद्वदित्यर्थः। "अथ लकारमात्रस्य ग्रहणं कस्मान्न भवति" इति। विशेषानुपादानामिति भावः। "चूडालः" इति। "प्राणिस्थादातो लजन्यतरस्याम्" ५।२।९५ इति लच्। "धात्वधिकारः" इति। "धातोः" ३।१।९१ इति पञ्चम्यन्तमनुवत्र्तते, तेन च लकारो विशिष्यते-- धातोर्विहितस् लस्येति। "लः कर्मणि च भावे चाकर्मकेभ्यः" ३।४।६९ इत्यादौ प्रकारणे येऽर्थाः कर्त्तृकर्मभावा निर्दिष्टास्त इहानुवत्र्तन्ते, तैश्च लकारो विशिष्यते-- कत्र्रादिषु विहितस्य लस्येति। तेन विसिष्टस्यैव लकारस्य ग्रहणं भवति, न सर्वस्येति भावः॥
बाल-मनोरमा
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ८९०, ३।४।७६

क्तोऽधिकरणे च। ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः। ध्रौव्यार्थेभ्यो, गत्यर्थेभ्यः, प्रत्यवसानार्थेभ्यश्चेति यावत्। चाद्यथाप्राप्तमिति। कर्मकर्तृभावेष्वपि यथासंभवमित्यर्थ-। ध्रौव्यमित्यस्य विवरणं - स्थैर्यमिति। स्थिरीभवनम्। उपवेशनशयनादिक्रियेति यावत्। मुकुन्दस्यासितमिदमिति। श्लोकोऽयम्। आस्यते अस्मिन्नित्यासितम्। आसनमित्यर्थः। ध्रौव्यार्थस्योदाहरणमिदम्। इदं यातं रमापतेरिति। गत्यर्थस्योदाहरणम्। यायते गम्यते अस्मिन्निति यातं, मार्गं इत्यर्थः। भुक्तमेतदनन्तरस्येति। भुज्यते अस्मिन्निति भुक्तम्। भोजनस्थानमित्यर्थः। "अधिकरणवाचिनश्चे"ति त्रिष्वपि कर्तरि षष्ठी। पक्षे इति। आधिकरणे प्रत्ययाऽभावपक्षे इत्यर्थः। आसेरकर्मकत्वादिति। ततश्च न कर्मणि क्त इत्यर्थः। आसितो मुकुन्द इति। आसितवानित्यर्थः। आसितं तेनेति। भावे उदाहरणम्। गत्यर्थेभ्य इति। तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थः, "लः कर्मणि चे"त्यत्राऽदर्शनादिति भावः। भुजेः कर्मणीति। भक्षणार्थात्कर्मणि क्तः, न तु भावे, सकर्मकेभ्यो भावे प्रत्ययस्य "लः कर्मणी"त्यत्राऽदर्शनात्। नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः। कथमिति। भुजेः कर्तरि क्ताऽभावस्योक्तत्वादिति भावः। समाधत्ते-- भुक्तमस्त्येषामिति। अत् गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययोऽस्त्येव , अविशेषात्, "अजर्यं सङ्गत"मिति सूत्रे "अनेकमन्यपदार्थेट इति सूत्रे च भाष्ये गत्यर्थेभ्यो भावे क्तप्रत्ययस्य अभ्युपगमाच्चेति शब्देन्दुशेखरे विस्तरः। इत्यधिकृत्येति। "वर्तमाने ल"डित्यतो मण्डूकप्लुत्या अनुवर्तमान इत्यर्थः, चानशादीनां सर्वकालतायाः "भूते" इति सूत्र भाष्ये उक्तत्वादित्याहुः।

तत्त्व-बोधिनी
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ७३२, ३।४।७६

मुकुन्दस्येति। आस्यतेऽस्मिन्नित्यासितम्। आसनमित्यर्थः। यायतेऽस्मिन्निति यानं मार्गः। भुज्यतेऽस्मिन्निति भुक्तं। भोजनमित्यर्थः। त्रिष्वपि "अधिकरणवाचिनश्चे"ति कर्तरि षष्ठी।