पूर्वम्: ३।४।८
अनन्तरम्: ३।४।१०
 
सूत्रम्
तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्- शध्यैशध्यैन्तवैतवेङ्तवेनः॥ ३।४।९
काशिका-वृत्तिः
तुमर्थे सेसेनसेअसेन्क्षेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ३।४।९

छन्दसि इत्येव। तुमुनो ऽर्थस् तुमर्थः। तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति। तुमर्थो भावः। कथं ज्ञायते? वचनसामर्थ्यात् तावदयम् कर्तुरपकृष्यते। न च अयम् अन्यस्मिन्नर्थे तुमुनादिश्यते। अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति। स्वार्थश्च धातूनां भाव एव। से वक्षे रायः। सेन् ता वामेषे रथानाम्। असे, असेन् क्रत्वे दक्षाय जीवसे। स्वरे विशेषः। क्षे प्रेषे भगाय कसेन् श्रियसे। अध्यै, अध्यैन् काममुपाचरध्यै। स्वरे विशेषः। कध्यै इन्द्राग्नी आहुवध्यै। कध्यैन् श्रियध्यै। शध्यै, शध्यैन् वायवे पिबध्यै। राधसः सह मादयध्यै। तवै सोममिन्द्राय पातवै। तवेङ् दशमे मासि सूतवे। तवेन् स्वर्देवेषु गन्तवे। कर्तवे। हर्तवे।
न्यासः
तुमर्थे सेसेनसेअसेन्कसेकसेनध्यैअध्यैकद्यैकध्यैन्शध्यैशद्यैन्तवैतवङ्तवेनः। , ३।४।९

"कथं ज्ञायते" इति। "कत्र्तरि कृत्" ३।४।६७ इति वचनात् कर्त्तैव तुमर्थो युक्त इति मन्यते। "वचनसामथ्र्यात्" इत्यादि। यदि कर्त्तैव तुमर्थः स्यात् तुमर्थवचनमर्थकं स्यात्, कृत्त्वादेव हि सयादयः कत्र्तरि भविष्यन्ति। तस्मात् तुमर्थग्रहणाल्लिङ्गात् कत्र्तरि तुमुन्न भवति। "अपकृष्यते"। अपनीयते। कत्र्तरि न भवतीति यावत्। स्यादेतत्, कर्मादिरस्यार्थो भविष्यतीत्याह-- "न च" इत्यादि। "अन्यस्मिन्" इति। कर्मादौ। यथा तर्हि कर्मादावनिर्देशान्न भवति तथा भावेऽपि न स्यात्। भावेऽपि नैव तुमुन्निर्दिश्यत इत्याह-- "अनिर्दिष्टार्थाः" इत्यादि। अर्थान्तरस्य निर्देशाद्या प्रकृतिः प्रत्ययानां निमित्तत्वेनोपादीयते तदर्थस्य प्रत्यासत्तेस्तत्रैवानिनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति, स पुनरिह स्वार्थो भावः। कुत एतत्? धात्वधिकारात्, धातोश्च भाववचनत्वात्। यद्येवम्, भावग्रहणमेव कुर्यात्, लघुत्वात्? नैवं शक्यम्; भावग्रहणे सति "कत्र्तरि कृत्" ३।४।६७ इति वचनात्तुमुन् कत्र्तर्येव स्यात्। तुमर्थग्रहणे हि तुमुनोऽपि हि भाव एवार्थ इत्येतद्ज्ञापितं भवतीति न कश्चिद्दोष इति। "वक्षे" इति। "वच परिभाषणे" (धा।पा।१०६३), सेप्रत्ययः, "चोः कुः" ८।२।३० इति कुत्वम्। "एषे" इति। इणः सेन्प्रत्ययः। "जीवसे" इति। "जीव प्राणधारणे" (धा।पा।५६२)। प्रत्ययद्वयस्याप्येतदेवोदाहरणम्, स्वरस्तु भिद्यते। "प्रेषे" इति। इणः प्रपूर्वात् क्से, "आद्()गुणः" ६।१।८४। "श्रियसे" इति। "श्रिञ् सेवायाम्" (धा।पा।८९७), अस्मात् क्सेन, इयङ्। "उपाचरध्यै" इति। "चर गत्यर्थः" (धा।पा।५५९), उपाङपूर्वः। प्रत्ययद्वयस्यापीदुहारणम्, स्वरभेदात्तु भेदः। "आहुवध्यै" इति। "पा पाने" (धा।पा।९२५), शध्यै, प्राघ्रादिसूत्रेण ७।३।७८ पिबादेशः। "मादयध्यै" इति। "मदी {हर्षग्लेपनयोः-धा।पा।} हर्षे" (धा।पा।८१५), हेतुमण्णिच्, शध्यैन्, गुणायादेशौ। "पातवै" इति। पिबतेस्तवै। "सूतवे" इति। "षूङ प्राणिगर्भविमोचे" (धा।पा।१०३१), तवेङ, ङित्वाद्गुणाभावः। "गन्तवे" इत्यादीन्युदाहरणानि गमिकरोतिहरतीनां यथाक्रमेण॥