पूर्वम्: ३।४।७
अनन्तरम्: ३।४।९
 
सूत्रम्
उपसंवादाशङ्कयोश्च॥ ३।४।८
काशिका-वृत्तिः
उपसंवादाऽशङ्कयोश् च ३।४।८

उपसंवादः परिभाषणम्, कर्तव्ये पणबन्धः, यदि मे भवानिदं कुर्यादहम् अपि भवते इदं दास्यामि इति। कारणतः कार्यानुसरणं तर्कः, उत्प्रेक्षा, आशङ्का। उपसंवादे आशङ्कायां च गम्यमानायां छन्दसि विषये लेट् प्रत्ययो भवति। उपसंवादे अहम् एव पशूनामीशै। मदग्रा एव वो ग्रहा गृह्यान्तै इति। मद्देवत्यान्येव वः पात्राण्युच्यानतै। आशङ्कायाम् च नेज्जिह्मायन्त्यो नरकं पताम। जिह्माचरणेन नरकपातः आशङ्क्यते। लिङर्थ एव अयम्, नित्यार्थं तु वचनम्। पूर्वसूत्रे अन्यत्रस्याम् इति वर्तते।
न्यासः
उपसंवादशङ्कयोश्च। , ३।४।८

"उपसंवादः परिभाषणम्; कत्र्तव्ये पणबन्धः" इति। उपसंवादशब्दस्येमौ पर्यायौ। "यदि मे भवान्" इत्यादिनोसवादस्य स्वरूपं दर्शयति। कारणत इत्यादिनाप्याशङ्कायाः। "अनुसरणम्" इति। अनुगमनम्, अनुमानमित्यर्थः। "तर्क उत्प्रेक्षा" इति। आशङ्काया इमौ प्र्यायौ। "अहमेव" इत्यादि। देवैः पशुपतिरुक्तस्त्रिपुरं जहीति, तेनोक्तम्-- "अहमेव पशूनामीशै" इति। ब्राहृहत्याभागं गृहाणेत्युक्ते आदित्य इदमुक्तवान् "मदग्रा एव वो ग्रहा गृह्रान्तै। मद्देवतान्येव वः पात्राण्युच्यान्तै। "ईशै"इति-- "ईश ऐ()आर्ये" (धा।पा।१०२०), उत्तमपुरुषैकवचनम्, इट्, टेरेत्वम्, "एत ऐ" ३।४।९३। "गृह्रान्तै" इति--ग्रह उपादाने" (धा।पा।१५३३), "झोऽन्तः" ७।१।३, कर्मणि "सार्वधातुके यक्" ३।१।६७, ग्रह्रादिसूत्रेण ६।१।१६ सम्प्रसारणम्। शेषं पूर्ववत् साधनम्। "उच्यान्तै" इति-- "वच परिभाषणे" (धा।पा।१०६३), वच्यादिसूत्रेण ६।१।१५ सम्प्रसारणम्। शेषं पूर्ववत्। "पताम" इति-- "पत्लृ गतौ" (धा।पा।८४५), मस्, "लेटोऽडाटौ" ३।४।९४ इत्याट्। "जिहृआचरणेन" इत्यादिना पूर्वोक्तमाशङ्कालक्षणमुदाहरणे दर्शयति। "लिङर्थ एवायम्" इति। हेतुहेतुमद्भावः। कथम्? उपसंवादे तावत्-- यदि मे भवानिदं कुर्यादहमपि त इदं दास्यामीत्येवंविधं परिभाषणलक्षणम्। तत्र च करणं हेतुः, दानं हेतुमदिति युक्त उपसंवादो लिङर्थः। आशङ्कापि कारणतः कार्यानुसरणम्। तत्रापि कारणं हेतुः, कार्यानुसरणं हेतुमदित्याशङ्कापि लिङर्थ एव। यद्येवम्म, पूर्वेणैव सिद्धम्, तत्किमर्थमिदमुच्यते? इत्याह-- "नित्यार्थ वचनम्" इति। स्यादेतत् पूर्वेणैव नित्यं भविष्यतीत्याह-- "पूर्वसूत्रे" इत्यादि॥