पूर्वम्: ३।४।९५
अनन्तरम्: ३।४।९७
 
सूत्रम्
वैतोऽन्यत्र॥ ३।४।९६
काशिका-वृत्तिः
वाएतो ऽन्यत्र ३।४।९६

लेटः इत्येव। लेट्सम्भन्धिनः एकारस्य वा ऐकाराऽदेशो भवति। अन्यत्र इत्यनन्तरो विधिरपेक्ष्यते। आत ऐ ३।४।९५ इत्येतद् विषयं वर्जयित्वा एत ऐ भवति। सप्ताहानि शासै। अहम् एव पशूनामीशै। मदग्रा एव वो ग्रहा गृह्यान्तै। मद्देवत्यान्येव वः पात्राण्युच्यान्तै। न च भवति। यत्र क्व च ते मनो दक्षं दधस उत्तरम्। अन्यत्र इति किम्? मन्त्रयैते। मन्त्रयैथे।
न्यासः
वैतोऽन्यत्र। , ३।४।९६

"शासै" इति। उत्तमपुरुषैकवचनमिट्, टेरेत्वम्। "ईशै" इत्यादीनि उदाहरणानि "उपसंवादाशङ्कयोः" ३।४।८ इत्यत्र व्युत्पादितानि। "दधस" इति। "डुधाञ् धारणपोषणयोः" (धा।पा।१०९२), "थासः से" ३।४।८०, शपः श्लु), "श्लौ" ६।१।१० इति द्विर्वचनम्, अट्, "घोर्लोपो लेटि वा" ७।३।७० इत्यकारलोपः॥