पूर्वम्: ३।४।९७
अनन्तरम्: ३।४।९९
 
सूत्रम्
स उत्तमस्य॥ ३।४।९८
काशिका-वृत्तिः
स उत्तमस्य ३।४।९८

लेटः इति वा इति च वर्तते। लेट्सम्भन्धिन उत्तमपुरुषस्य सकारस्य वा लोपो भवति। करवाव, करवाम। न च भवति। करवावः, करवामः। उत्तमग्रहणम्, पुरुषान्तरे मा भूत्।
न्यासः
स उत्तमस्य। , ३।४।९८

"करवाव" इति। "लेटोऽडाटौ" ३।४।९४ इत्याट्। "उत्तमग्रहणम्" इत्यादि। यदि तर्हि पुरुषान्तरे मा भूदित्येवमर्थमुत्तमग्रहणं क्रियते? न ; वस्मस्ग्रहणमेव कत्र्तव्यम्, अत्राप्ययमर्थः-- सकारग्रहणं कर्तव्यं न भवति, अलोऽन्त्यपरिभाषयैव सकालोपो भवति? अशक्यं वस्मस्ग्रहणं कर्त्तुम्; तस्मिन् सति यदा व्यत्यनेन पुरुषान्तरस्य स्थाने तौ भवतस्तदापि लोपः स्यात्, यदा चोत्तमपुरुषस्य स्थाने थस् क्रियते तदा लोपो न स्यात्। उत्तमग्रहणे सत्येव दोषो न भवति स्थानिवद्भावेन मध्यमोत्तमसंज्ञयोर्भवन्त्योरेकसंज्ञाधिकारादसति समावेश उत्तमसंज्ञया मध्यमसंज्ञाया निवृत्तिः। सकारग्रहणञ्च यदि न क्रियेत, तदोत्तमस्य व्यत्ययेन वचनान्तरेषु कृतेषु वर्णान्तरस्यापि लोपः स्यात्। तस्माद्यथान्यासमेवास्तु॥