पूर्वम्: ४।१।१०१
अनन्तरम्: ४।१।१०३
 
सूत्रम्
शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु॥ ४।१।१०२
काशिका-वृत्तिः
शरद्वच्छुनकदर्भाद् भृगुवत्साऽग्रायणेषु ४।१।१०२

गोत्रे इत्येव। शरद्वत् शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथासङ्ख्यं भृगुवत्साग्रायणेषु अर्थेषु अपत्यविशेषेषु। शारद्वतायनो भवति भार्गवश्चेत्। शारद्वतो ऽन्यः। शौनकायनो भवति वात्स्यश्चेत्। शौनको ऽन्यः। दार्भायणो भवति आग्रायणश्चेत्। दार्भिरन्यः। शरद्वच्छुनकशब्दौ बिदादी। ताभ्याम् अञो ऽपवादः फक्।
न्यासः
शरद्वच्छुनकदर्भाद्?भृगुवत्साग्रायणेषु। , ४।१।१०२

"गोत्र इत्येतत्" इति। यदि तर्हि गोत्र इति वत्र्तते, भुगुवत्साभ्यां मूलप्रकृतिभ्यां प्रत्ययार्थस्य विशेषणं नोपपद्यते, गोत्रप्रत्ययाभ्यामेव हि ताभ्यां गोत्रापत्यं प्रत्ययार्थः शक्यो विशेषयितुम्त एव युक्तं स्याद्वक्तुम्-- भार्गववात्स्यायनाग्रायणेष्विति? नैष दोषः;गोत्राधिकारसामथ्र्याद्धि गोत्रापत्य एव वत्र्तमानाविह गृह्रेते, कार्ये कारणोपचारं कृत्वा। तामेव गोत्रापत्ये तयोर्वृतिं()त दर्शयितुं वृत्तावित्युक्तम्-- "शारद्वतायनो भवति भार्गवश्चेत्, शौनकायनो भवति वात्स्यश्चेत्" इति॥
बाल-मनोरमा
शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु १०८८, ४।१।१०२

शरद्वच्छुनक। शेषपूरणेन सूत्रं व्याचष्टे--गोत्रे फगिति। आद्यौ विदादी इति। शरद्वच्छुनकशब्दौ विदादी। अतस्तदुभयविषयेऽञपवाद इत्यर्थः। दर्भविषये त्विञोऽपवाद इति स्पष्टमेव। दर्भः--कस्चिदृषिः। ऋष्यणं बाधित्वा बाह्वादित्वादिञ्। आग्रायणश्चेदिति। अग्रो नाम कश्चिदृषिः। नडादिफगन्तोऽयम्।

तत्त्व-बोधिनी
शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु ९०९, ४।१।१०२

शरद्वच्छुनक। भृगः शरद्वतोऽपत्यं न भवति, पूर्वभावित्वात्। एवं शुनकस्यापत्यं न भवति वत्सः। अतोऽत्र भार्गवश्च वात्स्यश्चाग्रायणश्चेति द्वन्द्वे "अत्रभृगु"इति "यञिञोश्चे"ति च यथासंभवं लुग्बोध्यः। यद्यप्यत्र बहुत्वाऽभावात् "अत्रिभृगु"इत्यादिना लुग्दुर्लभस्तथापि युगपदधिकरणवचनतायां वर्तिपदानां बह्वर्थत्वात्सौत्रत्वाद्वा स्यादेव लुक्। अतो व्याचष्टे---भार्गवश्चेदिकि। वात्स्यश्चेदिति च।