पूर्वम्: ४।१।१०२
अनन्तरम्: ४।१।१०४
 
सूत्रम्
द्रोणपर्वतजीवन्तादन्यतरयाम्॥ ४।१।१०३
काशिका-वृत्तिः
द्रोणपर्वतजीवन्तादन्यतरस्याम् ४।१।१०३

गोत्रे इत्येव। द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये ऽन्यतरस्यां फक् प्रत्ययो भवति। इञो ऽपवादः। द्रौणायनः, द्रौणिः। पार्वतायनः, पार्वतिः। जैवन्तायनः, जैवन्तिः। कथम् अनन्तरः अश्वत्थामा द्रौणायनः इत्युच्यते। न एव अत्र महाभारतद्रोणो गृह्यते। किं तर्हि? अनादिः। तत इदं गोत्रे प्रत्ययविधानम्। इदानींतनात् तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति।
न्यासः
द्रोणपर्वतजीवन्तादन्यतरस्याम्। , ४।१।१०३

"कथम्" इत्यादि। यदि गोत्रापत्ये द्रोणादिभ्यः फग्भवति, तत्कथं द्रौणायनः, द्रोणतः प्रतीत्येवमादिषु प्रयोगेष्वनन्तरोऽ()आत्थामा इत्युच्यते? "नैवात्र" इति। नात्रेदानीन्तनो द्रोणस्तदनन्तरापत्ये फका द्रोणायन इति, किं तर्हि? "अनादिः"इति। श्रुतिसम्भवदर्शनार्थमिदमुक्तम्। येन हेतुना()आत्थामा द्रौणायन इत्युच्यते तमिदानीन्तनेत्यादिना दर्शयति। "इदानीन्तनात्तु"इत्यादि। अनादिद्रोणव्यवच्छेदपरमेतद्वेदितव्यम्। न हि तावद्भारतद्रोण इदानीन्तनो भवति; चिरातीतत्वात्। चिरातीतोऽप्यर्थो बुद्धौ परिभाव्यमानो वत्र्तमानतां प्रतिपद्यते, यथा-- अद्य कंसो हन्यताम्। इदानीन्तनाद् द्रोणादप्य()आत्थाम्नि द्रोणायन इत्येवं गोत्रप्रत्ययेन यदभिधानं तदध्यारोपेण भवति। अविद्यमानस्यैव तत्रासञ्जनमध्यारोपः। कस्याध्यारोपः? गोत्रस्य। "श्रुतिसामान्यात्" इति। अध्यारोपे हेतुः। अनादेद्र्रोणस्या()आत्थानम्नः पितुश्च द्रोण इति समाना श्रुतिः। अतः श्रुतिसामान्यादनादिद्रोणापत्यस्य यो धर्मो गोत्रत्वं तद्भावं भारतद्रोणापत्येऽ()आत्थाम्न्यपि श्रुतिसामन्याच्चलितबुद्धयः प्रतिपत्तार अध्यारोपयन्ति। तेनाध्यारोपेण द्रोणायन इति तत्राभिधां प्रवत्र्तत#ए॥
बाल-मनोरमा
द्रोणपर्वतजीवन्तादन्यतरस्याम् १०८९, ४।१।१०३

द्रोणपर्वत। अनादिरिति। अस्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः,तदपेक्षया अन्य एवायमनादिद्रोण इत्यर्थः। अ()आत्थाम्नीति। द्रोणाचार्यस्यानन्तरापत्ये अ()आत्थाम्नि "द्रौणायन" इति प्रयोग इत्यर्थः। तदिदं "बाह्वादिभ्यश्चे"ति सूत्रे भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
द्रोणपर्वतजीवन्तादन्यतरस्याम् ९१०, ४।१।१०३

अनादिरिति। अ()आत्थाम्नः पिता यो महाभारते प्रसिद्धः, तदपेक्षयाऽन्य एवायं द्रोण इत्यर्थः। अ()आत्थाम्नीत्यादि। द्रोणाचार्यस्यानन्तरापत्ये अ()आत्थाम्नि "द्रौणायन"इति प्रयोगो भाक्त इत्यर्थः।