पूर्वम्: ४।१।११९
अनन्तरम्: ४।१।१२१
 
सूत्रम्
स्त्रीभ्यो ढक्॥ ४।१।१२०
काशिका-वृत्तिः
स्त्रीभ्यो ढक् ४।१।१२०

स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते। स्त्रीभ्यो ऽपत्ये ढक् प्रत्ययो भवति। सौपर्णेयः। वैनतेयः। स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहणे इह न भवति, इडबिडो ऽपत्यम् ऐडविडः, दरदो ऽपत्यम् दारदः इति। वडवाया वृषे वाच्ये। वाडवेयो वृषः स्मृतः। अपत्ये प्राप्तः ततो ऽपकृष्य विधीयते। तेन अपत्ये वाडवः इति। अण् क्रुञ्चाकोकिलात् स्मृतः। क्रुञ्चाया अपत्यं क्रौञ्चः। कौकिलः।
लघु-सिद्धान्त-कौमुदी
स्त्रीभ्यो ढक् १०२३, ४।१।१२०

स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥
न्यासः
स्त्रीभ्यो ढक्। , ४।१।१२०

"इह स्त्रीग्रहणेन टाबादिस्त्रीप्रत्ययान्ताः शब्दाः गृह्रन्ते" इति। अथ स्वरूपग्रहणं कस्मान्न भवति? बहुवचननिर्देशात्। स्वरूपग्रहणे हि तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यात्। स्त्र्यर्थमात्रस्य ग्रहणं कस्मान्न भवति? विमातृशब्दस्य स्त्र्यर्थस्य शुभ्रादिषु पाठात्। यद्यत्र स्त्र्यर्थमात्रस्य स्त्रीशब्दस्य ग्रहणं स्यात्, तस्य शुभ्रादिषु पाठोऽनर्थकः स्यात्, अनेनैव ढकः सिद्धत्वात्। "ऐडविडः दारदः" इति। इडविडोऽपत्यं वरदोऽपत्यमित्यणेव भवति। ढगिति वत्र्तमाने ढकः पुनग्र्रहणं नित्यार्थम्। "वडवाया वृष वाच्ये" इति। यस्तस्या गर्भे बीजं प्रक्षिपति स वृषो वाडवेय इत्युच्यते। "अण्क्रुञ्चाकोकिलात् स्मृतः" इति। वृष इति नापेक्ष्यते। अपत्ये विधिरेवायम्। ढकोऽपवादः॥
बाल-मनोरमा
स्त्रीभ्यो ढक् ११०७, ४।१।१२०

स्त्रीभ्यो ढक्। स्त्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चातुर्थिका गृह्रन्ते, न त्वन्येऽपि स्त्रीवाचका, व्याख्यानादित्याह--स्त्रीप्रत्ययान्तेभ्य इति। विनता नामगरुडमाता, तस्या अपत्यमिति विग्रहः। प्रत्ययग्रहणं किम्?। दरत्कश्चित्क्षत्रियः, तस्यापत्यं स्त्री दरत्। "द्व्यञ्मगधे"त्यण्। "अतश्चे"ति तस्य लुक्। तस्या अपत्यं-दारदः। अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वाऽभावान्न ढक्। ननु सुमित्राया अपत्यं सौमित्रिः, सपत्न्या अपत्यं सापत्न इति कथं, ढक्प्रसङ्गादित्यत आह--बाह्वादित्वादित्यादि। सापत्नशब्दे पुंवत्त्वं नेति प्रागेवोक्तम्।

तत्त्व-बोधिनी
स्त्रीभ्यो ढक् ९२७, ४।१।१२०

स्त्रीभ्यो ढक्। बहुवचननिर्देशान्न स्वरूपस्य ग्रहणं, नाप्यर्थस्य, ढगर्थतया शुभ्रादिषु विमातृशब्दपाठात्। किं तु स्त्र्यधिकारोक्तटाबादेग्र्रहणं, न तु विप्रकृतिक्तिन्नादेरित्याशयेनाह---स्त्रीप्रत्ययान्तेभ्य इत्यादिना। तेन "दरदोऽपत्यं दारदः"इत्यत्र ढक् न भवति। स्त्र्यर्थग्रहणे तु स्यादेवाऽत्र ढक्। दरच्छब्दो हि जनपदक्षत्रियवाचीति ततोऽपत्यार्थे "द्यञ्मगधे"त्यणि तस्य स्त्रियाम्। "अतश्चे"ति लुकि दरच्छब्दस्य स्त्र्यर्थवाचित्वात्। "ढक् चे"ति वर्तमाने पुनरिह ढग्ग्रहणमण्संबद्धस्य ढको निवृत्त्यर्थम्। यद्यपि "चानुकृष्टं नोत्तरत्रे"ति परिभाषया अणिह न प्रवर्तते तथापि तस्या अनित्यत्वज्ञापनाय ढग्ग्रहणमित्याहुः।

तस्येदमिति। शिवादित्वादपत्य एवाऽणित्यन्ये।