पूर्वम्: ४।१।१२८
अनन्तरम्: ४।१।१३०
 
सूत्रम्
गोधाया ढ्रक्॥ ४।१।१२९
काशिका-वृत्तिः
गोधाया ढ्रक् ४।१।१२९

गोधायाः अपत्ये ड्रक् प्रत्ययो भवति। गौधेरः। शुभ्रादिष्वयं पठ्यते, तेन गौधेयः अपि भवति।
न्यासः
गोधाया ढ्रक। , ४।१।१२९

"गोधेरः" इति। पूर्ववद्यलोपः॥
बाल-मनोरमा
गोधायाढ्रक् १११९, ४।१।१२९

गोधाया ढ्रक्। गौधेर इति। गोधाया अपत्यमिति विग्रहः। ढ्रकि ढकारस्य एयादेशे "लोपोव्यो"रिति यलोपः। कित्त्वादादिवृद्धिरिति भावः।

तत्त्व-बोधिनी
गोधाया ढ्रक् ९३५, ४।१।१२९

गौधेर इति। ढस्य एयादेशे कृते "लोपो व्यो"रिति यलोपः।