पूर्वम्: ४।१।१२९
अनन्तरम्: ४।१।१३१
 
सूत्रम्
आरगुदीचाम्॥ ४।१।१३०
काशिका-वृत्तिः
आरगुदीचाम् ४।१।१३०

गोधायाः अपत्ये उदीचाम् आचार्याणां मतेन आरक् प्रत्ययो भवति। गौधारः। आचार्यग्रहणं पूजार्थं, वचनसाम्र्थ्यादेव पूर्वेण समावेशो भवति। आरग्वचनम् अनर्थकं, रका सिद्धत्वात्? ज्ञापकं त्वयम् अन्येभ्यो ऽपि भवति इति। जाडारः। पाण्डारः।
न्यासः
आरगुदीचाम्। , ४।१।१३०

"आचार्यग्रहणं पूजार्थम्" इति। ननु चासत्याचार्यग्रहणे नित्य एवायं विधिः स्यात्, तथा चारकः पूर्वेण ढ्रका समावेशो न स्यात्। तद्विकल्पार्थमेवाचार्यग्रहणं कस्मान्न भवतीत्याह-- "वचनसामथ्र्यात्" इति। ढ्रगपि ह्रुच्यते, आरगपि, तत्र वचनसामथ्र्यात् समावेशो भविष्यति। तस्मात् पूजार्थमेवाचार्यग्रहणम्। "ज्ञापकं तु" इत्यादि। रका सिद्धे यदारग्वचनं सञ्ज्ञापनार्थम्। तेनैवं ज्ञायते-- अन्येभ्योऽप्ययं भवति;अन्यथा ह्रारग्वचनमनर्थकं स्यात् रकि सिद्धेः। तेन जडस्यापत्यं जाडारः, पाण्डार इति सिद्धं भवति, न ह्रेतद्रका सिध्यति॥
बाल-मनोरमा
आरगुदीचाम् ११२०, ४।१।१३०

आरगुदीचां। गोधाया आरग्वा स्यादित्यर्थः। अन्यत इति। आकारान्तादन्यत् अदन्तं, तस्मादपि क्वचिद्विधानार्थमित्यर्थः। जाडार इति। रग्विधौ आकारो न श्रूयेतेति भावः। पण्डो--नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना।

तत्त्व-बोधिनी
आरगुदीचाम् ९३६, ४।१।१३०

आरदुदीचाम्। वचनादेव ढ्रग्()ढकारकां पर्याये सिद्धे "उदीचां"ग्रहणं पूजार्थम्। "अरक्िति न सूत्रितं, "यस्येति चे"त्याकारलोपे "गौधरः"इत्यनिष्टप्रसङ्गात्। अन्यत इति। अनाकारान्ताल्लक्ष्यानुरोधेन कुतश्चिदित्यर्थ। पण्डस्येति। पण्डो नपुंसकः, तस्यापत्यं तु कृत्रिमादिरिति।