पूर्वम्: ४।१।१२
अनन्तरम्: ४।१।१४
 
सूत्रम्
डाबुभाभ्यामन्यतरस्याम्॥ ४।१।१३
काशिका-वृत्तिः
डाबुभाभ्याम् अन्यतरस्याम् ४।१।१३

डाप् प्रत्ययो भवति उभाभ्यां मन्नन्तात् प्रातिपदिकातनन्ताच् च बहुव्रीहेरन्यतरस्याम्। पामा, पामे, पामाः। सीमा, सीमे, सीमाः। न च भवति। पामानः। सीमानः। बहुव्रीहौ बहुराजा, बहुराजे, बहुराजाः। बहुतक्षा, बहुतक्षे, बहुतक्षाः। न च भवति। बहुराजानः। बहुतक्षाणः। अन्यतरस्यांग्रहणं किमर्थम्? बहुव्रीहौ, वनो र च ४।१।७ इत्यस्य अपि विकओपो यथा यात्। बहुधीवा, बहुधीवरी। बहुपीवा, बहुपीवरी।
न्यासः
डाबुभाभ्यामन्यतरस्याम्। , ४।१।१३

इहान्यतरस्यांग्रहमस्य डापः मुक्ते पक्षे प्रतिषेधोऽपि यथा स्यादित्येतद्वा प्रयोजनं स्यात्? डाप्प्रतिषेधाभ्यां मुक्ते पक्षे ङीबपि यथा स्यादित्येतद्वा? तत्राद्यं तावदयुक्तम्;डाबपि ह्रुच्यते, प्रतिषेधोऽपि, तावुभावपि वचनसामथ्र्याद्भविष्यतः। द्वितीयमप्ययुक्तम्। अन्यतरस्यांग्रहमेन ह्रनुपधालोपिनो वा बहुव्रीहेः पक्षे ङीब्विधीयते? उपधालोपिनो वा? तत्र प्रथमस्तावत् पक्षो नोपपद्यते, यदि ह्रत्रानुपधालोपिनःपक्षे ङीब्विधीयेत प्रतिषेधवचनमनर्थकं स्यात्; द्वितीयोऽपि नोपपद्यते, "अन उपधालोपिनोऽन्यतरस्याम्" ४।१।२८ इति प्रतिपदं विकल्पेन ङीपो विधास्यमानत्वात्। न च तदन्यतरस्यांग्रहमं न करिष्याम इतीहान्यतरस्यांग्रहणं कर्त्तुं युक्तम्; तद्ध्यवश्यमेव कत्र्तव्यम्, उपधालोपिनो हि ङीपा मुक्ते डाप्प्रतिषेधौ यथा स्याताम्-- बहुराज्ञ्यौ, बहुराजानौ, बहुराजे इति। इतरथा हि डाप्प्रतिषेधौ सुपर्वादिष्वनुपधालोपिषु सावकाशौ परत्वान्ङीपा बाध्येयाताम्। तस्माद्वक्ष्यमाणमप्यन्यतरस्यांग्रहणं कत्र्तव्यमेवेति तत्सर्वं मनसि कृत्वाऽ‌ऽह-- "अन्यतरस्यांग्रहणं किमर्थम्" इति। निरर्थकमिति भावः। "बहुव्रीहौ"इत्यादि। "वनो र च" ४।१।७ इत्यनेन यत्कार्यं विधीयते तस्यापि बहुव्रीहौ विकल्पो यथा स्यादित्येवमनर्थकमन्यतरस्यांग्रहणम्। यद्यत्प्राप्तं तत्तद्विकल्पेन प्रत्युपस्थापयितव्यम्। ङीब्रोफावप्राप्तौ, "अनो बहुव्रीहेः" ४।१।१२ इति प्रतिषेधात्। तस्मात् तद्विधानार्थमन्यतरस्यांग्रहणं कत्र्तव्यम्। कथमन्यतरस्यामिति? योगविभागोऽत्र क्रियते, तत्र बहुव्रीहिग्रहणमनुवत्र्तते, "वनो र च" ४।१।७ इत्येतच्च मण्डूकप्लुतिन्यायेन। तेन वन्नन्ताद्बहुव्रीहेरन्यतरस्यां ङीब्रोफश्चान्तादेशो लभ्यत इति बहुपीवा, बहुधीवा, बहुपीवरी, बहुधीवरीत्यादि सिद्धं भवति। अन्ये त्वाहुः-- उभाभ्यांग्रहमसहितादन्यतरस्यांग्रहणाद्वन्नन्ताद्बहुव्रीहेर्ङीब्रोफौ लभ्येते। "उभाभ्याम्" ४।१।१३ इतिनेयं पञ्चमी, कं तर्हि? तृतीया, वन्नन्ते बहुव्रीहौ स्त्रीत्वमुभाभ्यां ङीब्रोफाभ्यां करणाभ्यां प्रयोक्त्रा प्रत्याययितव्यमिति। ननु च मन्नन्तात् प्रातिपदिकादन्नन्ताच्च बहुव्रीहेर्डाबुभाभ्यामित्यदुभाभ्यांग्रहणस्य प्रयोजनम्? एवं मन्यते-- स्वरितत्वादेव "उभाभ्याम" ४।१।१३ इति वचनमन्तरेणाप्युभाभ्यामेव प्रत्ययो लभ्यत एवेति॥
बाल-मनोरमा
ङाबुभाभ्यामन्यतरस्याम् ४५५, ४।१।१३

डाबुभाभ्याम्। "उभाभ्या"मित्येतद्व्याचष्टे--सूत्रद्वयोपात्ताभ्यामिति। "मन" इति "अनो बहुव्रीहेः" इति च सूत्रद्वयोपात्तान्मन्नादन्नन्तबहुव्रीहेश्चेत्यर्थः। नन्विहान्यतरस्याङ्ग्रहणं व्यर्थम्। नच तदभावे डाब्नित्यः स्यादिति वाच्यं, डापो नित्यत्वे तेनैव ङीपो निवृत्तिसंभवेन ङीब्निषेधवैयथ्र्यात्। एवञ्च ङीप्निषेधडापोर्वचनसामथ्र्यादेव विकल्पसिद्धेरन्यतरस्याङ्ग्रहणं व्यर्थमिति चेत्, स्पष्टार्थमिति केचित्। भाष्ये तु "अन्यतरस्या"मिति योगविभागमाश्रित्य "बहुव्रूहौ" इति वार्तिकं प्रत्याख्यातम्। सीमेति। सीमन्शब्दाड्डापि टिलोपे सीमाशब्दात्सोर्हल्ङ्यादिलोपः। डाबभावपक्षेऽपि "मनः" इति ङीब्निषेधे सौ "सीमे"त्येव राजवद्रूपम्। तर्हि डाब्विधेः किं फलमित्यत आह-सीमे सीमानाविति। मन्नन्तविषये उदाहरणान्तरमाह-दामेति। दाधातोरौणादिको मनिन्। "हिरण्मयं दाम दक्षिणा" इत्यादौ दामशब्दस्य नपुंसकत्वदर्शनादाह-न पुंसीति। दामन्शब्दः पुंसि न, किंतु स्त्रीनपुंसकयोरित्यर्थः, "निषिद्धलिङ्गं शेषार्थ"मिति परिभाषितत्वात्। अन्नन्तबहुव्रीहेरुदाहरति-बहुयडज्वेति। बहवो यज्वानो यस्या इति विग्रहः। डापि टिलोपे बहुयज्वाशब्दात्सोर्हल्ङ्यादिलोपः। ङीब्निषेधे सौ एतदेव राजवद्रूपम्। डापः फलमाह-बहुयज्वे बहुयज्वानाविति। शसि-बहुयज्वनः। अत्राऽल्लोपस्तु न भवति, "न संयोगाद्वमन्ता"दिति निषेधात्। अत एव "अन उपदालोपिनः" इत्यस्य नायं विषयः।

तत्त्व-बोधिनी
डाबुभाभ्यामन्यतरस्याम् ४१०, ४।१।१३

डाबुभाभ्याम्। उभाभ्याङ्गरहणं व्यर्थं, मन्नन्ताऽन्नन्तयोरनुवृत्त्यैव तत्फलसिद्धेरित्येके। उभोरप्यनुवृत्तिसृचनाय त्द्ग्रहणमावश्यकम्, अन्यथा संनिहितस्यान्नन्तस्यैवानुवृत्तिरिति शङ्का स्यादित्यन्ये। ननु निषेधापोर्वचनसामथ्र्यात्पर्यायः सिध्यति तत्किमन्यतरस्यङ्गरहणेन()। सत्यम्। "अन्यतरस्या"मिति योगो विभज्यते, तत्र "मनः"इति निवृत्तम्। अनो बहुव्रीहेर्डाब्वा स्यात्। पूर्वेणैव डैपि सिद्धे पुनर्विधानमिदम् "ऋन्नेभ्यः--"इति ङीपा स ह विकल्पार्थम्। "अन उपधालोपिनः--"इति सूत्रं तु नियमार्थम्। "अनो योऽसौ विकल्पः स उपधालोपिन एवे"ति। एवं ट "बहुधीवर्य्यौ""बहुधीवानौ" "बहुधीवे"त्युक्तरुपत्रयं सिद्धमिति "बहुव्रीहौ वे"त्येतन्नाऽपूर्वं वचनमिति बोध्यम्। "उपधालोपिन एवे"ति नियमात्तु "सुपर्वा"चारुपर्वे"त्यादावनुधालोपिनो ङीप्न भवति, किंतु डाप्प्रतिषेधावेव भवतः। अयं च योगविभागोऽबश्यमभ्युपेयः, अन्यथा "बहिधावरी"त्यत्र प्रकरणान्तरस्थेन "अन उपधालोपिन"इति वक्ष्यमाणेन पाक्षिके ङीपि कृतेऽपि "ऋन्नेभ्यः"इति प्राप्तं ङीपमनूद्य तत्संनियोगेन हि विधायमानो यो "वनोर चे"ति ,#ऊत्रमेव ङीब्राऔ विधत्तामिति चेन्, उभयविधौ गौरवात्। किञ्चोभयविधायकत्वेऽपि "अनो बहुव्रीहे"रित्यनेन ङीपि निषिद्धे रोऽपि दुर्लभः, संनियोगशिष्टत्वात्। भाष्ये तु "अनो बहुव्रीहे"रित्यस्याऽनन्तरम् "उपधालोपिनो वे"ति सूत्रमस्तु, "अन उपधे"त्यादि प्रदेशान्तरस्थं सूत्रं, ङाप्सूत्रेऽन्यतरस्याङ्ग्रहणं च मास्त्वित्युक्तम्।