ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह-प्रत्ययग्रहणे इति। यस्मात्प्रकृतिभूताच्छब्दाद्यः प्रत्ययो विहितः तदादेः=स प्रकृतिभूतः शब्द आदिर्यस्य तस्य , तदन्तस्य=स प्रत्ययोऽन्तो यस्य समुदायस्य, तस्य च ग्रहणम्। प्रकृतिप्रत्ययसमुदायस्य तन्मध्यवर्तिनश्च ग्रहणमित्यर्थः। "तिड्डतिङ"इत्यत्र तिङ्ग्रहणेन शबादिविकरणस्यापि ग्रहणार्थं तदादिग्रहणम्। "यस्मात्प्रत्ययविधि"रिति सूत्रे इयं परिभाषा भाष्ये स्थिता। तेनेति। वन्नन्तेन प्रातिपदिकादित्यधिकृतस्य विशेषणात्पुनस्तदन्तविधिलाभावादिति भावः। नचैवं सति वन्नन्तस्य कथं लाभ इति वाच्यं, "यनविधिस्तदन्तस्ये"त्यत्र "स्वं रूप"मित्यतः"स्व"मित्यनुवर्त्त्य विभक्तिविपरिणामेन स्वस्य चेति व्याख्यानादिति भानः। तदेतदपिशब्देन सूचितम्। वन्नन्तमेव व्यपदेशिवत्त्वेन वन्नन्तान्तमिति केचित्। "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती"ति तु "स्त्रिया"मित्यस्मिन्नधिकारे न प्रवर्तते, "शूद्रा चामहत्पूर्वा जातिः"इत्यत्र अमहत्पूर्वेति लिङ्गात्। अथ वन्नान्तान्तमुदाहरति-सुत्वानमिति। "षुञ् अभिषवे" "सुजयोङ्र्वनिप्" "ह्यस्वस्य पिति कृती"ति तुक्। सुत्वन्शब्दः। सुत्वानमतिक्रान्ता इति विग्रहे "अत्यादयः"इति समासः। सुब्लुकि, ङीप्, नकारस्य रत्वम्, इतिसुत्वरीति रूपम्। अतिधीवरीति। "डुधाञ्धारणपोषणयोः", "अन्येभ्योऽपि दृश्यते"इति भाषायामपि क्वनिप्। "घुमास्था"इति ईत्त्वम्। धीवानमतिक्रान्ता इति विग्रहे "अत्यादयः" इति समासः। ङीब्राश्च, अतिधीवरीति रूपम्। भाष्ये तु "ध्यायतेः क्वनिपि संप्रसारणे "हलः"इति दीर्घ" इति स्थितम्। शर्वरीति। "शृ? हिंसायाम्", "आतो मनिन्क्वनिब्वनिपश्च", "अन्येभ्योऽपि दृश्यते" इति भाषायामपि वनिप्, "सार्वधातुकार्धधातुकयोः" इति गुणः, "वनो र चे"ति ङीब्राश्च। वन्नन्तस्योदाहरणमेतत्। "अतिशर्वरी"ति पाठे तु इदमपि वन्नन्तातन्तस्योदाहरणम्। सुत्वरी, धीवरी, शर्वरीति वन्नन्तस्योदाहरणानि। वनो नेति। पूर्ववद्वन्नन्तं वन्नन्तान्तं च गृह्रते। "हश" इति पञ्चमी, तेन च धातोरित्यधिकृत्य विहितेवनाऽऽक्षिप्तं धातोरित्येतद्विशेष्यते, तदन्तविधिः। ङीबिति रश्चेति चानुवर्तते। तदाह--हशन्तादित्यादिना। विहितविशेषणस्य प्रयोजनं दर्शयन्वन्नन्तोदाहरणं दर्शयितुमाह--ओणृ इत्यादिना। वनिबिति। "अन्येभ्योऽपि दृश्यते इत्यनेने"ति शेषः। आवावेति। ओण् इत्यस्मद्वनिपि "विड्वनोरनुनासिकस्या"दिति णकारस्य आत्त्वे ओकारस्यावादेशे "अवावन्" शब्दः। स्त्रीत्वस्फोरणाय "ब्राआहृणी"ति विशेष्यम्। अत्र ओण् इति धातोर्हशन्ताद्वन् विहितः, तदन्तत्वान्न ङीब्रात्वे, किंतु राजवद्रूपम्। "हशन्ताद्धातोः परो यो व"न्निति व्याख्याने तु आत्वे सति वनो हशः परत्वाऽभावान्निषेधो न स्यादिति भावः। वन्नन्तान्तमुदाहरति-राजयुध्वेति। राजानं योधितवतीत्यर्थः। भूते कर्मणि क्विबित्यनुवर्तमाने "राजनि युधिकृञः" इति क्वनिप्। कर्मीभूते राजनि उपपदे युधेः कृञ्श्च क्वनिबिति तदर्थः। उपपदसमासे सुब्लुकि राजयुध्वन्शब्दः। अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदन्तो राजयुध्वन्शब्दः, अतो न ङीब्राआदेशावित्यर्थः।
बहुव्रीहौ वा। इदं वार्तिकम्। "वनो र चे"ति विधिर्वहुव्रीहौ वा स्यादित्यर्थः। "अनो बहुव्रीहे"रिति निषेधस्यापवादः। बहुधीवरीति। बहवो धीवानो यस्या इति विग्रहः। बहुधीवेति। ङीब्रात्वयोरभावे राजवद्रूपम्। नच बहूनि पर्वाणि यस्याः सा बहुपर्वेत्यत्रापि हीब्रात्वविकल्पः स्यादिति वाच्यम्, "अल्लोपोऽनः" इति उपधालोपयोग्यस्थल एवैतद्वार्तिकस्य प्रवृत्तेर्भाष्ये उक्तत्वात्। बहुपर्वन्शब्दे च "न संयोगाद्वनमन्ता"दित्यचल्लोपनिषेधात्। पक्षे इति। ङीब्रात्वाऽभावपक्षे "डाबुभाभ्या"मिति डाब्वक्ष्यत इत्यर्थः। डपावितौ। बहुधीवन्-आ इति स्थिते "टेः" इति टिलोपे बहुधीवाशब्दात्सोर्हल्ङ्यादिलोपे "बहुधीवे"ति रमावद्रूपम्। ङीब्रात्वयोर्डापश्चऽभावेसौ बहुधीवेत्येव रूपम्। ङीब्रात्वयोर्बहुधीवरीति। औजसादिषु तु बहुधीवर्यौ-बहुधीवे बहूधीवानौ इत्यादि रूपत्रयमिति भावः।