पूर्वम्: ४।१।१३०
अनन्तरम्: ४।१।१३२
 
सूत्रम्
क्षुद्राभ्यो वा॥ ४।१।१३१
काशिका-वृत्तिः
क्षुद्राभ्यो वा ४।१।१३१

ढ्रकनुवर्तते, न आरक्। क्षुद्राः अङ्गहीनाः शीलहीनाश्च। अर्थधर्मेण तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिष्यन्ते। क्षुद्राभ्यो वा अपत्ये दृअक् प्रत्ययो भवति। ढको ऽ पवादः। काणेरः, काणेयः। दासेरः, दासेयः।
न्यासः
क्षुद्राभ्यो वा। , ४।१।१३१

"अर्थधर्मेण" इति। अर्थस्य क्षुद्रत्वात्तदभिधायिन्योऽपि प्रकृतय उपचारेण क्षुद्रा इति निर्दिश्यन्ते॥
बाल-मनोरमा
क्षुद्राभ्यो वा ११२१, ४।१।१३१

श्रुद्राभ्यो वा। अङ्गहीना इति। चक्षुरादिकतिपयावयवविकला इत्यर्थः। शीलहीना इति। सद्वृत्तहीना इत्यर्थः। यथेष्टपुरुषसंचारिण्य इति यावत्। "अनियतपुंस्का अङ्गहीना वा क्षुद्राः" इति भाष्यम्।

तत्त्व-बोधिनी
क्षुद्राभ्यो वा ९३७, ४।१।१३१

क्षुद्राभ्यः। अर्थगतं स्त्रीत्वं शब्दे आरोप्यं स्त्रीलिङ्गनिर्देशः।