पूर्वम्: ४।१।१३७
अनन्तरम्: ४।१।१३९
 
सूत्रम्
क्षत्राद्घः॥ ४।१।१३८
काशिका-वृत्तिः
क्षत्राद् घः ४।१।१३८

क्षत्रशब्दादपत्ये घः प्रत्ययो भवति। क्षत्रियः। अयम् अपि जातिशब्द एव। क्षात्रिरन्यः।
लघु-सिद्धान्त-कौमुदी
क्षत्त्राद् घः १०२८, ४।१।१३८

क्षत्त्रियः। जातावित्येव। क्षात्त्रिरन्यत्र॥
न्यासः
क्षत्त्राद्घः। , ४।१।१३८

"घप्रत्ययो भवति" इति। घशब्द एव, न तु तरप्तमपाविति वेदितव्यम्। कथं पुनरेतल्लभ्यते,यावता "घः" इति तरप्तमपोरियं संज्ञा, चोच्चरिता संज्ञिनं सम्प्रत्ययायतीति तयोरेव ग्रहणं युक्तम्? नैष दोषः; प्रत्ययविधौ यत्र "घः" इति श्रूयते,तत्र स्वरूपस्य ग्रहणं भवति; ज्ञापकात्। यदयं प्रत्ययादेर्घकारस्येयादेशं शास्ति, तज्ज्ञापयति-- यत्र प्रत्ययविधौ घः श्रूयते स्वरूपमेव गृह्रत इति। न हि संज्ञिनोग्र्रहणेन प्रत्ययादेर्घः सम्भवति॥
बाल-मनोरमा
क्षत्राद्धः ११४५, ४।१।१३८

क्षत्राद्धः। "अपत्ये" इति शेषः। क्षत्रिय इति। घस्य इयादेशे "यस्येति चे"त्यकारलोपः। क्षात्रिरन्य इति। क्षत्राच्छूद्रादाबुत्पन्न इत्यर्थः।