पूर्वम्: ४।१।१३६
अनन्तरम्: ४।१।१३८
 
सूत्रम्
राजश्वशुराद्यत्॥ ४।१।१३७
काशिका-वृत्तिः
राजश्वशुराद् यत् ४।१।१३७

राजन्श्वशुरशब्दाभ्याम् अपत्ये यत् प्रत्ययो भवति। यथाक्रमम् अणिञोरपवादः। राजन्यः। श्वशुर्यः। राज्ञो ऽपत्ये जातिग्रहणम्। राजन्यो भवति क्षत्रियश्चेत्। राजनो ऽन्यः।
लघु-सिद्धान्त-कौमुदी
राजश्वशुराद्यत् १०२५, ४।१।१३७

(राज्ञो जातावेवेति वाच्यम्)॥
न्यासः
राज�आशुराद्यत्। , ४।१।१३७

"क्षत्रियजातिश्चेत्" इति। प्रत्ययान्तेन यदि क्षत्रियजातिर्गम्यते एवं यद् भवति। यो ह्रपत्यमेव राज्ञो न क्षत्त्रियजातिस्तत्राणेवौत्सर्गिको भवति। एतच्च "वा ४।१।१३१ इत्यस्येहानुवृत्तस्य व्यवस्थिविभाषात्वविज्ञानाल्लभ्यते। "राजन्यः" इति। "ये चाभावकर्मणोः" ६।४।१६८ इति प्रकृतिभावः। "राजनः" इति। अत्रापि "अन्" ६।४।१६७ इति प्रकृतिभावः॥
बाल-मनोरमा
राज�आशुराद्यत् ११३७, ४।१।१३७

राज()आशुराद्यत्। राजन्शब्दाच्छ्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः। क्रमेण अणिञोरपवादः।

राज्ञो जातावेवेति। जातिः समुदायवाच्याचेदित्यर्थः।

तत्त्व-बोधिनी
राजस्वशुराद्यत् ९४८, ४।१।१३७

राज()आशुराद्यत्।कमेणाऽणिञोरपवादः।

राज्ञो जातावेवेति वाच्यम। जाता वेवेति। प्रकृति प्रत्ययसमुदायेन जातिश्चेद्वाच्येत्यर्थः। प्रत्ययस्त्वपत्य एव। एवं च पङ्कजादिवद्योगरूढ इति फलितोऽर्थः।