पूर्वम्: ४।१।१४०
अनन्तरम्: ४।१।१४२
 
सूत्रम्
महाकुलादञ्खञौ॥ ४।१।१४१
काशिका-वृत्तिः
महाकुलादञ्खञौ ४।१।१४१

अन्यतरस्याम् इति अनुवर्तते। महाकुलशब्दातञ्खञौ प्रत्ययौ भवतः। पक्षे खः। माहाकुलः, माहाकुलीनः, माहाकुलीनः।
न्यासः
महाकुलादञ्खञौ। , ४।१।१४१

बाल-मनोरमा
महाकुलादञ्खञौ ११४८, ४।१।१४१

महाकुलादञ्खञौ। अनुवर्तत इति। अन्यथा महाविभाषाधिकारे अपवादेन मुक्ते उत्सर्गस्याऽप्रवृकत्तेः पीलाया वे"त्यत्रोक्तत्वात्पूर्वसूत्रोक्तः खो न स्यादिति भावः। तदाह--पक्षे ख इति। तथा सति आदिवृद्धिर्नेति भावः।