पूर्वम्: ४।१।१४८
अनन्तरम्: ४।१।१५०
 
सूत्रम्
फेश्छ च॥ ४।१।१४९
काशिका-वृत्तिः
फेश् छ च ४।१।१४९

कुत्सने इत्येव, सौवीरेषु इति च। फेः इति फिञो ग्रहणं न फिनः, वृद्धाधिकारात्। फिञन्तात् प्रातिपदिकात् सौवीरगोत्रादपत्ये छः प्रत्ययो भवति, चकाराट् ठक्, कुत्सने गम्यमाने। यमुन्दस्य अपत्यं, तिकादिभ्यः फिञ् ४।१।१५४। तस्यपत्यं यामुन्दायनीयः, यामुन्दायनिकः। कुत्सने इत्येव, यामुन्दायनिः। फिञन्तादौत्सर्गिकस्य अण आगतस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः २।४।५८ इति लुक्। सौवीरेसु इत्येव, तैकायनिः। यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः। सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित् समरेत्।
न्यासः
फेश्च च। , ४।१।१४९

"यमुन्दश्च"इत्यादि। येभ्योऽनेन सूत्रेण छठकाविष्येते, तेषामनेन श्लोकेन परिगणनं क्रियते, तत्तु बहुलग्रहणानुवृत्तेरेव लभ्यत इत्येवं तद्वेदितव्यम्। यमुन्दमुद्दिश्य वृत्तिकारेणैवोदाहरणं दर्शितम्। इतरयोस्तु दर्शयामः-- सुयाम्नोऽपत्यं, फिञ्-- सौयामायनिः,तस्यापत्यं सौयामायनिकः। वृषस्यापत्यं,फिञ्, तस्य वाध्र्यायणिः, तस्यापत्यं वाष्र्यायणीयः,वाष्र्यायणिकः। एते यमुन्दादयः शब्दाः फिञः स्मृताः = फिञन्ता विज्ञाताः। "गोत्रस्त्रियाः कुत्सने ण च" ४।१।१४७ इत्यादयश्चत्वारो योगाः। तत्राद्यः कुत्सन एव, अन्त्यः सौवीरेष्वेव। मध्यमौ तु द्वौ सौवीरेषु कुत्सायाञ्च शब्दवित्स्मरेत् जानीयात्॥
बाल-मनोरमा
फेश्छ च ११५६, ४।१।१४९

फेश्छ च। "छे"ति लुप्तप्रथमाकम्। यमुन्दस्येति ष यमुन्दो नाम सुवीरदेशे कश्चित्। यामुन्दायनिरिति। यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाऽभावाच्छठगभावे "तस्यापत्य"मित्यण्। "ण्यक्षत्रियार्षे"ति तस्या लुगित्यर्थः। तैकायनिरिति। तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावे "तस्यापत्य"मित्यण्। "ण्यक्षत्रिये" ति तस्य लुगित्यर्थः। तैकायनिरिति। तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावे "तस्यापत्य"मित्यण्। "ण्यक्षत्रिये"ति तस्य लुगिति भावः।