पूर्वम्: ४।१।१५४
अनन्तरम्: ४।१।१५६
 
सूत्रम्
कौसल्यकार्मार्याभ्यां च॥ ४।१।१५५
काशिका-वृत्तिः
कौशल्यकार्मार्याभ्यां च ४।१।१५५

कौशल्यकार्मार्यशब्दाभ्याम् अपत्ये फिञ् प्रत्ययो भवति। इञो ऽपवादः। कौशल्यायनिः। कार्मार्यायणिः। परमप्रकृतेरेव अयं प्रतययः इष्यते, कौशलस्य अपत्यं, कर्मारस्य पत्यम् इति। प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते। यथा च स्मृत्यन्तरम्, दगुकोसलकर्मारच्छागवृषाणां युट् वादिष्टस्य इति। दागव्यायनिः। कौसल्यायनिः। कार्मार्यायणिः। छग्यायनिः। वार्ष्यायणिः।
न्यासः
कौशल्यकार्मार्याभ्याञ्च। , ४।१।१५५

"परमप्रकृतेरेवायं प्रत्यय इष्यते" इति। कोशलशब्दात्, कर्मारशब्दाच्च। एवकाः "वृद्धेत्कोशलाजादाञ्ञ्यङ्" ४।१।१६९ इति ञ्यङन्तो यः कौशल्यशब्दः, यश्च "सेनान्तलक्षणकारिभ्यश्च" ४।१।१५२ इति कारिलक्षणण्यप्रत्ययान्तः कर्मार्यशब्दः तयोव्र्यवच्छेदाय। यदि मूलप्रकृतेरेवेष्यते, कथमिदं विकृतं प्रकृतिरूपं श्रयूते? इत्याह-- "प्रत्ययसन्नियोगेन" इत्यादि। न चेयं स्वमनीषिका, अपि त्वाचार्यणामेव भाष्यकारप्रभृति#ईनामिदं मतमिति दर्शयन्नाह-- "तथा च" इत्यादि। कः पुनः परमप्रकृतेः प्रत्ययान्ताद्वत्पत्तौ विशेषः? परमप्रकृतेरुत्पत्तावपत्यमात्रे प्रत्ययो लभ्यते, प्रत्ययान्तात् तूत्पत्तौ "गोत्राद्यूनि" ४।१।९४ इति वचनात् "यून्यपत्ये" इत्येव विशेषः। "युड् वादिष्टस्य" इति। आदिष्टग्रहणमायन्नादेशए कृते यथा स्यादित्येवमर्थम्; अन्यथा ह्रनादित्वादायन्नादेशो न स्यात्। "दागव्यावनिः" इति। "ओर्गुणेः" ६।४।१४६ कृते "वान्तो यि प्रत्यये" ६।१।७६ इत्यवादेशः॥ "कात्र्रायणिः" इति। कर्त्तुरपत्यमित्यण्--- कार्त्रः, ततः फिञ्। " दाक्षायणः" इति। दाक्षिशब्दादिञन्ताद्यूनि पञिञोश्च" ४।१।१०१ इति फक्। प्रतिपादनादि सुगमम्॥
बाल-मनोरमा
कौशल्यकार्मार्याभ्यां च ११६१, ४।१।१५५

कौसल्य। परमप्रकृतेरेवेति। कोसलकर्माराभ्यां फिञ्, तस्य युट् चेत्यर्थः। भाष्ये स्पष्टमेतत्।

छागवृषयोरपीति। फिञ्, तस्य युट् चेति वक्तव्यमित्यर्थः

तत्त्व-बोधिनी
कौशल्यकार्मार्याभ्यां च ९६०, ४।१।१५५

कौशल्य। परमप्रकृतेरेवायमिति। यदि तु "वृद्धेत्कोसले"ति ञ्यङन्तात्कोशलशब्दात्कारिलक्षणण्यन्तात्कर्मारशब्दाच्चायं विधिः स्यात्तदा यून्येव प्रसज्यतेतेति भावः।

छागवृषयोरपि। छागेति। दगुशब्दस्याप्युपलक्षणमेतत्। फैञ्प्रकरणे "दगुकोसलकर्मारच्छागवृषाणां युट्चाऽ‌ऽदिष्टस्यं"इति वार्तिकात्। आदिष्टस्य। आयन्नदेशस्येत्यर्थः। अन्यथा प्रातिपदोक्ते युटि कृते प्रत्ययादित्वाऽभावात्कौशल्यायनिरित्यादौ फस्यायन्नादेसो न स्यात्, युकि कृते तु "दागव्यायनिः इत्यत्र और्गुणः, अन्यत्राऽल्लोपश्च न स्यादिति भावः।