पूर्वम्: ४।१।१६
अनन्तरम्: ४।१।१८
 
सूत्रम्
प्राचां ष्फ तद्धितः॥ ४।१।१७
काशिका-वृत्तिः
प्राचां ष्फ तद्धितः ४।१।१७

यञः इत्येव। प्राचाम् आचार्याणां मतेन यञन्तात् स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञः। षकारो ङीषर्थः। प्रत्ययद्वयेन इह स्त्रीत्वं व्यज्यते। तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम्। गार्ग्यायणी। वात्स्यायनी। अन्येषाम् गार्गी। वात्सी। सर्वत्रग्रहणम् उत्तरसूत्रादिह अपकृष्यते बाधकबाधनार्थम्। आवट्यात् चापं वक्ष्यति, तम् अपि बाधित्वा प्राचां ष्फ एव यथा स्यात्। आवट्यायनी।
लघु-सिद्धान्त-कौमुदी
प्राचां ष्फ तद्धितः १२५७, ४।१।१७

यञन्तात् ष्फो वा स्यात्स च तद्धितः॥
न्यासः
प्राचां ष्फ तद्धितः। , ४।१।१७

"षकारो ङीषर्थः" इति। "षिद्()गौरादिभ्यश्च" ४।१।४१ इति ङीप्यथा स्यात्। ननु च क्रियमाणेऽपि षकारे नैव ङीषा भवितव्यम्, ष्फप्रत्ययेनैव स्त्रीत्वस्याभिव्यक्तत्वादित्यत" आह-- "प्रत्ययद्वयेन" इत्यादि। न हि केवलः ष्फः स्त्रीत्वमभिव्यङ्क्तुं समर्थ इति ङीषमपेक्षते। तेन सहिताभ्यामेव ताभ्यां स्त्रीत्वं व्यज्यत इति ङीषा भवितव्यम्। "तद्धितग्रहणम्" इत्यादि। "कृत्तद्धितसमासश्च" १।२।४६ इति प्रातिपदिकसंज्ञा यथा स्यादित्येवमर्थं तद्धितग्रहणम्। प्रातिपदिकसंज्ञा तु ङीष् यथा स्यादित्येवमर्थम्। ननु च विनापि तया षित्करणसामथ्र्यादेव ङीष् भविष्यति, अन्यथा हि षित्करणमनर्थकं स्यत्, प्रयोजनन्तराभावात्; न च "त्रपूष् लज्जायाम्" (धा।पा।३७४) इत्यतोऽपि धातोः स्यादित्यतिप्रसङ्ग आशङ्कनीयः, धातोः षित्करणस्य "षिद्भिदादिभ्योऽङ" ३।३।१०४ इत्यङविधौ चरितार्थत्वात्, अत इति चाधिकारात्? सत्यमेतत्, प्रतिपत्तिगौरवं तु स्यात्। तस्मात् सुखप्रतिपत्तये तद्धितग्रहमम्। "सर्वत्रग्रहणम्" इत्यादि। उत्तरसूत्रे सर्वत्रग्रहणमनर्थकम्। तद्धि सर्वेषामचार्याणां मतेन यथा स्यादित्येवमर्थं क्रियते, एतच्चाप्रयोजनम्, अस्वरितत्वदेव हि प्राग्ग्रहणस्य सर्वेषां मतेन भवितव्यम्। तस्मादुत्तरसूत्रे सर्वत्रग्रहणमनर्थकम्, अतस्तदिहापकृष्यते। किमर्थमित्याह-- "बाधकबाधनार्थम्" इति। "आवट()आच्चापं वक्ष्यति" इत्यादना बाधकबाधनार्थमित्यस्यैवार्थं विस्पष्टीकरोति।अवट()आच्चापोऽवकाशः-- उदीचां मतेन आवट()एति, घवटशब्दाद् गर्गादिञन्ताच्चाप्, "प्राचां ष्फ तद्धितः" ४।१।१७ इत्यस्यावकाशः-- गाग्र्यायणीति; आवट()आत् प्राचानुभयप्रसङ्गे परत्वाच्चाप् स्यात्। सर्वत्रग्रहणात् ष्फ एव भविष्यति-- आवट()आयनीति॥
बाल-मनोरमा
वृद्धेत्कोसलाजादाञ्ञ्यङ् ११७१, ४।१।१७

वृद्धेत्कोसला। जनपदक्षत्रियोभयवाचकाद्वृद्धसंज्ञकादिदन्तात्, कोसलात् , अजादाच्चापत्ये ञ्यङित्यर्थः। वृद्धादिति। उदाह्यियते इत्यर्थः। आम्बष्ठ्यः सौवीर्य इति। आम्बष्ठसौवीरशब्दौ जनपदक्षत्रियोभयवाचकौ। इदिति। इदन्तोदाहरणसूचनमिदम्। आवन्त्य इति। अवन्तिशब्दो देशे राजनि च। कौसल्य इति। कोसलशब्दो देशे राजनि च। अजादस्यापत्यमिति। राजवाचकत्वे विग्रहोऽयम्। देशवाचकत्वे तु अजादानां राजेति विग्रहः।

बाल-मनोरमा
प्राचां ष्फ तद्धितः ४६६, ४।१।१७

प्राचां ष्फ तद्धितः। "यञ" इत्यनुवर्तते, स्त्रियामित्यदिकृतम्। "ष्पे" ति लुप्तप्रथमाकम्। तदाह--यञ्न्तादिति।

तत्त्व-बोधिनी
प्राचां ष्फ तद्धितः ४२०, ४।१।१७

प्राचां ष्फ तद्धितः। "तद्धित"ग्रहणं ष्फप्रत्ययान्तस्य प्रातिपदिकसंज्ञार्थम्। तेन "षिद्गौरे"ति ङीष्सिध्यति। ननु प्रातिपदिकसंज्ञा विनापि षित्करणसामथ्र्यादेव ङीष्भाविष्यति किमनेन तद्धितग्रहणेन()। न च यञन्ते "यस्येति चे"ति लोपार्थं तदिति वाच्यम्। सवर्णदीर्घेणापि रूपसिद्धेर्लोपस्याऽनावश्यकत्वात्। एवं तर्हि तद्धितग्रहणमिञन्तादपि क्वचित्ष्फोभवतीति ज्ञापनार्थम्। तेन "आसुरेरुपसङ्ख्यान"मिति वक्ष्यमाणं सिध्यति।