पूर्वम्: ४।१।२५
अनन्तरम्: ४।१।२७
 
सूत्रम्
संख्याऽव्ययादेर्ङीप्॥ ४।१।२६
काशिका-वृत्तिः
सङ्ख्याव्ययादेर्ङीप् ४।१।२६

पूर्वेण ङीषि प्राप्ते ङीब् वधीयते। सङ्ख्यादेः अव्ययादेश्च बहुव्रीहेरूधस्शब्दान्ताद् ङीप् प्रत्ययो भवति। सङ्ख्यादेः तावत् द्व्यूध्नी। त्र्यूध्नी। अव्ययादेः अत्यूध्नी। निरूध्नी। आदिग्रहणं किम्? द्विविधोध्नी, त्रिविधोध्नी इत्यत्र अपि यथा स्यात्।
न्यासः
संख्याव्ययादेर्ङीप्। , ४।१।२६

"द्व्यूघ्नी"इत्यादि। द्वे ऊधसी अस्याः। त्रीण्यूधांस्यस्याः।अबिगतमूधोऽस्याः।निर्गतमूधोऽस्या इति विग्रहः। "आदिग्रहणं किम्" इति। एवं मन्यते-- संख्याव्ययाभ्यामित्येव वक्तव्यम्, "बहुव्रीहेरूधसः" (४।१।२५) इति हि वत्र्तते,, तत्रैवमभिसम्बन्धः करिष्यते--- संख्याव्ययाभ्यामुत्तरो य ऊधःशब्दस्तदन्ताबहुव्रीहेर्ङीब्भवतीति, तथा च निष्पलमादिग्रहणम्, विनापि तेन सिद्धत्वादिति। "द्विविधोघ्नी" इत्यादि। यद्यादिग्रहणं न क्रियेत तदा "संख्याव्ययाभ्याम्" इति पञ्चमीनिर्देशात् संख्याया अनन्तरो य ऊधःशब्दस्तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति। द्विविधमूधो यस्या इति विग्रहः। अत्रादिग्रहणे सति विधशब्देन व्यवधानेऽपि भवति॥
बाल-मनोरमा
सङ्ख्याऽव्ययादेर्ङीप् ४७९, ४।१।२६

सङ्ख्याव्ययादेर्ङीप्। सङ्ख्याव्ययादेरूधोऽन्तात्स्त्रियां ङीप् स्यादित्यर्थः। ङीषोऽपवाद इति। "बहुव्रीहेरूधसो ङी"षित्यस्यापवाद इत्यर्थः। स्वरे विशेषः। सङ्ख्यादेरुदाहरति--द्व्यूध्नीति। द्वे ऊधसी यस्या इति विग्रहः। बहुव्रीहेरित्येवेति। "बहुव्रीहे"रित्यनुवर्तते एवेत्यर्थः। ऊधोऽतिक्रान्तेति। "अत्यादयः क्रान्ताद्यर्थे द्वितीयया" इति समासस्य अबहुव्रीहित्वान्न ङीप्। अत एव नानङ्, नापि ङीष्।

तत्त्व-बोधिनी
सङ्ख्याऽव्ययादेर्ङीप् ४३२, ४।१।२६

सङ्ख्याऽव्यया। आदिग्रहणत्पदान्तरव्यवधानेऽपि स्यादेव, द्विविधोन्धी।