पूर्वम्: ४।१।२६
अनन्तरम्: ४।१।२८
 
सूत्रम्
दामहायनान्ताच्च॥ ४।१।२७
काशिका-वृत्तिः
दामहायनानाच् च ४।१।२७

ऊधसः इति निवृ̄त्तम्। सङ्ख्याग्रहणम् अनुवर्तते, न अव्ययग्रहणम्। सङ्ख्यादेः बहुव्रीहेः दामशब्दान्तात् हायनशब्दान्तात् च स्त्रियां ङीप् प्रत्ययो भवति। दामान्तात् डाप्प्रतिषेधविक्ल्पेषु प्राप्तेषु नित्यार्थं वचनम्। द्विदाम्नी। त्रिदाम्नी। हायनान्ताट् टापि प्राप्ते। द्विहायनी। त्रिहायणी। चतुर्हायणी। हायनो वयसि स्मृतः। तेन इह न भवति, द्विहायना शाला। त्रिहायना। चतुर्हायना। णत्वम् अपि त्रिचतुर्भ्याम् हायनस्य इति वयस्य इव स्मर्यते।
न्यासः
दामहायनान्ताच्च। , ४।१।२७

"ऊधसः" इति निवृत्तम्,प्रकृत्यन्तरोपादानात्। "संख्याग्रहणनुवत्र्तते, नाव्ययग्रहणम्" इति। संख्याग्रहणस्यैव स्वरितत्वात्। "डाप्प्रतिषेधविकल्पेषु प्राप्तेषु" इति। "डाबुभाभ्यामन्यतरस्याम्" ४।१।१३ इत्यादिना डापि प्राप्ते "अनो बहुव्रीहेः" ४।१।१२ इति प्रतिषेध "अन उपधालोपिनोऽन्यतरस्याम्ट ४।१।२८ इति विकल्पे च। द्वे दामनी अस्या इति "द्विदाम्नी"। "द्वौ हायनावस्या इति "द्विहायनी"। "हायनो वयसि स्मृतः" इति। प्रकृतिरिति शेषः। कस्य प्रकृतिः? ङीपः प्रकृतत्वात् तस्यैव। बहुव्रीह्रधिकारादत्र हायमान्तो बहुव्रीहिरिति गम्यते। एतदुक्तं भवति-- हायमान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इति। तेन यदि वयो गम्यते ततो ङीब्भवति, नान्यथा। एतच्चोत्तरसूत्रेऽन्यतरस्यांग्रहणस्योभयोर्योगयोः शेषभूतत्वाद्व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। अथ त्रिचतुभ्र्यां हायनस्याप्युपसंख्यानाद्यथा हि त्रिहायनी चतुर्हायणीत्यत्र णत्वं भवति; तथा त्रिहायना शाला, चतुर्हायना शालेत्यत्रापि कस्मान्न भवति? इत्याह -- "णत्वमपि" इत्यादि। तदपि हि णत्वमौपसंख्यानिकमाचार्यैर्वयस्येव स्मर्यते। न च शालाया वयः सम्भवति, तस्य प्राणिधर्मत्वादिति नेह णत्वं प्रवर्तते। अन्तग्रहणं विस्पष्टार्थम्। बहुव्रीह्रधिकारादेव हि सामथ्र्यात् तदन्तविधिर्लभ्यते; न हि केवलयोर्दामहायनशब्दयोर्बहुव्रीहिसंज्ञा केनचिद्विहिता॥
बाल-मनोरमा
दामहायनान्ताच्च ४८०, ४।१।२७

दामहायनान्ताच्च। "सङ्ख्यादेः" "ङी"विति चानुवर्तते। तदाह--सङ्ख्यादेरिति। अव्ययग्रहणं तु नानुवर्तते, अस्वरितत्वादिति भावः। बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टार्थम्। दामान्ते इति द्विदामन्शब्दे दामान्ते "डाबुभाभ्या"मिति डापि "अन उपधालोपिनः" इति ङीपि, "अनो बहुव्रीहे"रिति ङीप्प्रतिषेधे च-प्राप्ते, द्विहायनीत्यत्रापि हायनान्तेऽदन्तत्वाट्टापि प्राप्ते "दामहायनान्ताच्चे"ति वचनमित्यर्थः। द्विदाम्नीति। द्वे दामनी यस्या इति विग्रहः। ङीपि "अल्लोपोऽनः" इति भावः। नन्वव्ययग्रहणानुवृत्तौ किं बाधकमित्यत आह्म अव्ययग्रहणेति। उद्दामेति। उद्दामेति। उत्क्रान्तं दाम यस्या इति विग्रहः। डाब्विषेधावपीति। अपिना "अन उपधे"ति ङीप् गृह्रते, अन्ग्रहणे अनर्थकस्यापि ग्रहणात्। अथ हायनान्तस्य उदाहरति--द्विहायनी बालेति। द्वौ हायनौ यस्या इति विग्रहः।

अथ त्रिहायणीत्यत्र भिन्नपदत्वाण्णत्वाऽप्राप्तावाह--त्रिचतुभ्र्यामिति। नन्वेवमपि "द्विहायना शाले"त्यत्रापि ङीप् स्यात्, "त्रिहायना शाले"त्यत्र तु ङीप् णत्वं च स्यातामित्यत आह--वयोवाचकस्येति। इष्यते इति। "भाष्यकृते"ति शेषः।

तत्त्व-बोधिनी
दामहायनान्ताच्च ४३३, ४।१।२७

दाम। बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम्। सङ्ख्यादेरिति। समासनिर्देशेऽपि स्वरितत्वबलादेकदेश एवानुवर्तत इति भावः। अननुवृत्तेरिति। भाष्यकृताऽननुवर्ततत्वादिति भावः। एवं चोद्दामेत्यत्र "दामहायनान्ताच्चे"त्यस्याऽप्रवृत्त्या पूर्वोक्तेषु डाप्ङीब्नेषेधेषु प्राप्तेषु बहुराज्ञीवद्रूपत्रयं भवत्यतो व्याचष्टे---डान्बिषेधावपीति।