पूर्वम्: ४।१।२८
अनन्तरम्: ४।१।३०
 
सूत्रम्
नित्यं संज्ञाछन्दसोः॥ ४।१।२९
काशिका-वृत्तिः
नित्यं संज्ञाछन्दसोः ४।१।२९

अन्नन्ताद् बहुव्रीहेरुपधालोपिनः संज्ञायां विषये छन्दसि च नित्यं ङीप् प्रत्ययो भवति। विकल्पस्य अपवादः। सुराज्ञी, अतिराज्ञी नामः ग्राम। छन्दसि गौः पञ्चदाम्नी। एकदाम्नी। द्विदाम्नी। एकमूर्ध्नी। समानमूर्ध्नी।
न्यासः
नित्यं संज्ञाछन्दसोः। , ४।१।२९

नित्यग्रहणं विस्पष्टार्थम्। पूर्वणैव हि विकल्पेन ङीप् सिद्धः, तदारम्भसामथ्र्यादेव ङीब्नित्यं भविष्यति, अन्यथा हीदं वचनमनर्थकं स्यात्॥
तत्त्व-बोधिनी
नित्यं संज्ञाछन्दसोः ४३४, ४।१।२९

नित्यं सञ्ज्ञाछन्दसोः। "अन उपधालोपिनः"इति विकल्पस्याऽपवादः। आरम्भसामथ्र्यात्सिद्धेऽपि नित्यत्वे नित्यग्रहणमुत्तरत्र विकल्पाननुवृत्तितसूचनाय कृतमित्याहुः। शतमूर्न्धीति। इह "पञ्चदाम्नि"ति क्वचित्पाठः, स चाऽयुक्तः "दामहायनान्ताच्चे"त्यनेनैव सिद्धत्वात्।