पूर्वम्: ४।१।२९
अनन्तरम्: ४।१।३१
 
सूत्रम्
केवलमामकभागधेयपापापरसमानार्यकृत- सुमङ्गलभेषजाच्च॥ ४।१।३०
काशिका-वृत्तिः
केवलमामकभागधेयपापापरसमानाऽर्यकृतसुमङ्गलभेषजाच् च ४।१।३०

संज्ञाछन्दसोः इत्येव। केवलाऽदिभ्यः प्रातिपदिकेभ्यः संज्ञायां, छन्दसि विषये स्त्रियां ङीप् प्रत्ययो भवति। केवली। केवला इति भाषायाम्। मामकी। मामिका इति भाषायाम्। मित्रावरुणयोर् भागधेयीः स्थ। भागधेया इति भाषायाम्। सा पापी। पापा इति भाषायाम्। उता अपरीभ्यो मघवा विजिग्ये। अपरा इति भाषायाम्। समानी प्रवाणी। समाना इति भाषायाम्। आर्यकृती। आर्यकृता इति भाषायाम्। सुमङ्गली। सुमङ्गला इति भाषायाम्। भेषजी। भेषजा इति भाषायाम्।
न्यासः
केवलमामाकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च। , ४।१।३०

अथ मामकग्रहणं किमर्थम्, यावताऽस्मदः "तस्येदम्" ४।३।१२० इत्यणि कृते "तवकममकावेकवचने" ४।३।३ इतिममकादेशेन मामक इति भवति, ततश्च "टिड्()ढाणञ्" (४।१।१५) इत्येव ङीप्सिद्धेः? सत्यमेतत्; नियमार्थं तु मामकशब्दस्य ग्रहणम्; संज्ञाच्छन्दसोर्यथा स्यात्, अन्यत्र मा भूदिति॥
बाल-मनोरमा
केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ४८१, ४।१।३०

केवलमामक। नित्यं संज्ञाच्छन्दसोः" इति पूर्वसूत्रमनुवर्तते। एवंच "अन उपधालोपिनोऽन्यतरस्या"मित्यन्यतरस्यांग्रहणं निवृत्तम्। "सङ्ख्याव्ययादेर्ङी"बित्यतो ङीबित्यनुवर्तते। तदाह-एभ्य इति। केवल, मामक, भागधेय, पाप, अपर, समान, आर्यकृत, सुमङ्गल, भेषज-इत्येतेभ्यो नवब्य इत्यर्थः। छन्दस्युदाहरति--अथोत इन्द्रः केवलीरिति। मामकी तनू इति। मदीयायामित्यर्थः। "युष्मदस्मदोरन्यतरस्यां खञ् चे"त्यणि "तवकममकावेकवचने" इति प्रकृतेर्ममकादेशः, ङीप्, "सुपां सुलुगि"ति सप्तम्या लुक्। "मित्रावरुणोर्भागधेयी स्थ"। "भागरूपनामभ्योधेयः" इति स्वार्थिको धेयप्रत्ययः। भागशब्दस्य पुंलिङ्गत्वेऽपि "स्वार्थिकाः प्रकृतेः क्वचिल्लिङ्गवचनान्यतदिवन्र्तते" इति स्त्रीत्वं, ङीप्। "तन्वः सन्तु पापीः"। पापमस्यास्तीत्यर्थे अर्श आद्यजन्तात्स्त्रीत्वे ङीप्। "उत वापरीभ्यो मघवा विजिग्ये"। अपरशब्दः पवर्गमध्यः। "समानीव आकूतिः।" आर्यकृतीति क्वचिद्वेदेऽन्वेषणीयम्। एवं सुमङ्गलीति च। "सुमङ्गलीरियं वधूः" इत्यत्र "छन्दसीवनिपौ च" इति मत्वर्थे ईप्रत्ययः। "शिवा रुद्रस्य भेषजा।" भेषजशब्दो रोगनिवर्तके औषधे प्रसिद्धः। अत एव सूत्र#आत्स्त्रीत्वमपि। यद्वा भिषज इयमित्यर्थेऽणि इकारस्य एकारोऽत एव निपातनात्। संज्ञायामप्येवमेव सर्वत्र ङीबुदाहार्यः ष संज्ञाच्छन्दोभ्यामन्यत्र सु केवला मामिका इत्यादि। नन्वणन्तत्वादेव "टिड्ढाणञि"ति ङीपि सिद्धे मामकग्रहणं व्यर्थमित्यत आह--मामकग्रहणमिति। लोकेऽसंज्ञायां च ङीब्निवृत्त्यर्थमिति भावः। एवं भेषजशब्दस्य अणन्तत्वेऽपि ज्ञेयम्। एतदर्थमेव वैदिकप्रक्रियायामिदं नोपन्यस्तम्।

तत्त्व-बोधिनी
क्वलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ४३५, ४।१।३०

केवल। छन्दसि "मामकी तनू"। "मित्रावरुणयोर्भागधेयी""तन्वः सन्तु पापीः"।"उतापरूभ्यः"। "समानी व आकूतिः"। आर्यकृती। सुमङ्गली। "सुमङ्गलीरियं वधूः"इत्यत्र तु "छन्दसीवनिपौ"इति मत्वर्थे ईप्रत्ययो बोध्यः। "शिवा रुद्रस्य भेषजी"। अन्यत्र केवलेत्यादीति। मामकनरकयोरुपसङ्ख्यानादित्वम्। मामिका।भागशब्दात्पुंलिङ्गात्स्वार्थे धेयप्रत्ययः। "स्वार्थिकाः क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते"इति स्त्रीत्वम्। भागधेया। अभेदोपचारात्तद्वति वर्तमानः पापशब्दो विशेष्यनिघ्नः। पापा। अपरा। समाना। आर्येण कृतेति प्राक् सुबुत्पत्तेः कृदन्तेन समासः। टाप्। आर्यकृता। भिषज इयमित्यणि आदिवृद्धेरपवादोऽस्मादेव निपातनादेकारः। "संज्ञाछन्दसो"रिति नियमादन्यत्र--भेषजा।