पूर्वम्: ४।१।३३
अनन्तरम्: ४।१।३५
 
सूत्रम्
विभाषा सपूर्वस्य॥ ४।१।३४
काशिका-वृत्तिः
विभाषा सपूर्वस्य ४।१।३४

पत्युर्नः इति वर्तते। पतिशब्दान्तस्य प्रातिपदिकस्य सपूर्वस्य अनुपसर्जनस्य स्त्रियां विभाषा नकाराऽदेशो भवति, ङीप् तु लभ्यते एव। वृद्धप्त्नी, वृद्धपतिः। स्थूलपत्नी, स्थूलपतिः। अप्राप्तविभाषेयमयज्ञसंयोगत्वात्। सपूर्वस्य इति किम्? पतिरियं ब्राह्मणी ग्रामस्य।
न्यासः
विभाषा सपूर्वस्य। , ४।१।३४

"पतिशब्दान्तस्य"इत्यादि। एतेन पतिशब्दस्य ग्रहणम्, सपूर्वग्रहणम्, अनुपसर्जनग्रहणञ्च -- त्रयमप्येतत् प्रातिपदिकस्य विशेषणमिति दर्शयति। सहशब्दोऽयमस्त्येव तुल्ययोगे-- सशिष्यो गुरुरागत इति, गुरोः शिष्यस्य चागमनेन तुल्ययोगः प्रतीयते; अस्ति च सत्तावचनः, यथा-- सहैव दशभिः पुत्रैर्भारं वहति गर्दभी" इति, विद्यमनैरेवेत्यर्थः। तदिह सत्तावचनो गृह्रते, सपूर्वस्य विद्यमानपूर्वस्येत्वर्थः। यदि हि तुल्ययोगे वत्र्तमानो गृह्रते, ततोऽयमर्थः स्यात्---सहपूर्वेण पतिशब्दान्तस्य नकारो भवतीति। ततश्च पतिशब्दात् पूर्वस्यापि वृद्धादिशब्दस्य नकारः स्यात्। एवं हि तुल्ययोगो भवति यदि नकार उभयोरपि भवति। पूर्वशब्दोऽयमस्त्येव व्यवस्थाशब्दः, यथा--पूर्वं मथुरायाः पाटलिपुत्रमिति; अस्त्यवयववचनः, यथा-- पूर्वं कायस्येति। तदिहावयववचनो गृह्रते। सह विद्यमानः पूर्वोऽवयवो यस्य तत् सपूर्वमित्युच्यते। यदि व्यवस्थाशब्दो गृह्रेत, तत्रायमर्थः स्यात्-- विद्यमानः पूर्वो यस्मात् तस्य पतिशब्दान्तस्य नकारो भवतीति। ततस्च दृढपत्नीत्यत्र न स्यात्, न हि पतिशब्दान्तादिहकश्चित् पूर्वोऽस्तीति। अथ पतिशब्दस्यैव सपूर्वत्वमनुपसर्जनत्वञ्च विशेषणं कस्मान्न विज्ञायते? अशक्यत्वात्। स ह्रवयववचनं वा पूर्वशब्दं गृहीत्वा विशिष्येत, व्यवस्थाशब्दं वा। तत्र पूर्वस्तावदयुक्तः कल्पः अव्यभिचारात्, असम्भवाच्च। कथम्? यदि पकारं पूर्वमभिप्रेत्य विद्यमानः पूर्वोऽवयवो यस्येति विशिष्येत, ततोऽव्यभिचारादयुक्तं विशेषणम्। न हि पकारेण यस्य पूर्वत्वं तत्पतिशब्दो व्यभिचरति। अथ शब्दान्तरम्? तदसम्भवादयुक्तं विशेषणम्। न हि शब्दान्तरं पतिशब्दस्यावयव उपपद्यते। व्यवस्थाशब्दपक्षे तु विद्यमानः पूर्वो यस्मात् तदिति विशिष्यते। युज्यते च विशेष्यविशेषणभावः। किन्तु वाक्येऽपि नकारः प्राप्नोति---- ग्रामस्य पतिरियं ब्राआहृणीति; अस्ति ह्रत्र पतिशब्दात् पूर्वो ग्रामशब्द-। अनुपसर्जनग्रहणेनापि पतिशब्दे विशिष्यमाने बहुव्रीहौ विकल्पो न प्राप्नोति-- दृढः पतिरस्या दृढपतिः, दृढपत्नीति। न ह्रत्रानुपसर्जनं पतिशब्दः, सर्वोपसर्जनत्वाद्()बहुव्रीहेरिति बहुव्रीह्रवयवानामप्युपसर्जनत्वात्। तस्मात् प्रातिपदिकस्यैव विशेषणं युक्तम्। "पतिरियं ब्राआहृणी ग्रामस्य" इति। ननु च व्यपदेशिवद्भावादिदमपि सपूर्वमिति शक्यते व्यपदेष्टुम्। न च "व्यपदेशिवद्भावोऽप्रतिपदिकेन" (शाक्।प।६५) इति व्यपदेशिवद्भावाभावः; प्रातिपदिकत्वात्। यद्येवम्, पतिशब्दान्ततापि नास्तीति, अतो द्व्यङ्गविकलता? नैतदस्ति; सपूर्वग्रहणे हि क्रियमाणे पतिशब्दान्तस्येत्येषोऽर्थो लभ्यते। अक्रियमाणे तु तस्मिन् शब्दस्यैव शुद्धस्य नकारो विज्ञायते॥
बाल-मनोरमा
विभाषा सपूर्वस्य ४८४, ४।१।३४

विभाषा सपूर्वस्य। "पत्युर्न" इत्यनुवर्तते। प्रातिपदिकादित्यनुवृत्तं षष्ट()आ विपरिणतं पत्युरित्यनेन विशेष्यते, तदन्तविधिः। सपूर्वस्येत्येतत्पतिशब्दान्तप्रातिपदिकेऽन्वेति। पूर्वावयवसहितस्येत्यर्थः। तदाह--पतिशब्दान्तस्येत्यादिना। यज्ञसंयोगाऽभावेऽपि अप्राप्तविभाषेयम्। गृहपतिः गृहपत्नीति। नत्वपक्षे "ऋन्नेभ्य" इति ङीप्। अत्र गृहपतिशब्दः पतिशब्दान्तो गृहशब्दात्मकपूर्वावयवसहितश्चेति भावः। नच "ग्रहणवता प्रातिपदिकेने"ति निषेधः शङ्क्यः, "शूद्रा चामहत्पूर्वा" इति लिङ्गेन तस्य स्त्रियामित्यधिकारेऽप्रवृत्तेरुक्तत्वात्। ननु दृढः पतिर्यस्या इति बहुव्रीहौ दृढपतिः दृढपत्नीति नत्वविकल्प इष्यते, स तु न संभवति, अनुपसर्जना"दित्यधिकारात्, पतिशब्दस्यात्रोपसर्जनत्वात्। नच अनुपसर्जनादिति नात्र संबध्यते इति वाच्यम्, उत्तरत्रानुवृत्तये इहापि तदनुवृत्तेरावश्यकत्वादित्यत आह--अनुपसर्जनस्येत्यादि। किं तु तदन्तस्येति। सपूर्वस्येति पत्यन्तस्य श्चुतत्वेन तद्विशेषणताया एव न्याय्यत्वात्। अवान्तरवाक्यार्थबोधोत्तरमेव अनुपसर्जनत्वविशेषणप्रवृत्त्या तत्काले सपूर्वस्य श्रुतत्वेन तेनैव संबन्धे जाते सति पश्चात्पतिशब्देऽपि पुनव्र्यापारे मानाऽभावादिति भावः। तेनेति। अनुपसर्जनत्वस्य पत्यन्तविशेषणत्वेनेत्यर्थः। यज्ञसंयोगग्रहणमनुवर्त्त्य प्राप्तविभाषो कुतो न स्यादित्यत आह--वृषलपत्नीति। पाति रक्षतीति पतिः, वृषलस्य पतिः स्त्री इति विग्रहः। अपशूद्राधिकरणे शूद्राणां यज्ञाधिकारनिराकरणादिह यज्ञसंयोगाऽभावादप्राप्तमेव नत्वं विभाष्यत इति भावः। आक्षिपति--अथेति। आक्षेपारम्भद्योतकोऽथशब्दः, प्रश्नद्योतको वा। "मह्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अत" इत्यमरः। व्यस्ते इति। विग्रहवाक्ये इत्यर्थः। ततश्च सपूर्वत्वाऽडभावान्न प्रकृतसूत्रेण नत्वविकल्पः। यज्ञसंयोगाऽभावाच्च न पूर्वसूत्रेण, अकतो वूषलस्य पत्नीत्यनुपपन्नमित्याक्षेपः। इति चेन्नेति। इत्याक्षिपसि चेन्नैतद्युक्तमित्यर्थः। पत्नीवेति। यज्ञसंयुक्तायां द्विजभार्यायां यः पत्नीशब्दो व्युत्पादितस्तस्यैव शूद्रस्त्रियामपि अयज्ञसंयुक्तायां पाणिग्रहणादिधर्मपुरस्कारेण गौण्या वृत्त्या प्रयोगः। यथा गङ्गायामिति स्त्रीलिङ्गस्य तीरे प्रयोगः। उक्तं च भाष्ये-"तुषजकस्य पत्नीत्युपमानात्सिद्ध"मिति। यद्वेति। प्रौढिवादमात्रमिदम्, स्त्रियामाचारक्विबन्तप्रकृतिकक्विबन्तशब्दां न सन्तीति "अनुपसर्जना"दित्यत्रोक्तात्वेता। सपूर्वस्येति किमिति। प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्वाऽव्यभिचारात्सपूर्वस्येति किमर्थमिति प्रस्नः। गवां पतिः स्त्रीति। स्वामिनी, रक्षित्री वेत्यर्थः। असमस्तत्वाद्गवामित्यस्य न पूर्वावयवत्वमिति भावः। यद्यपि "यत्र सङ्घाते पूर्वो भागः पदं तत्र चेत्प्रातिपदिकसंज्ञा भवति तर्हि समासस्यैवे"ति नियमेन गवां पतिरिति समुदायस्य पत्यन्तत्वेऽपि प्रातिपदिकत्वाऽभावादेवात्र नत्वविकल्पो न भवति तथापि गवां पतिरित्यत्र पतिशब्दस्यैव व्यपदेशिवत्त्वेन तदन्ततया नत्वविकल्पप्राप्तौ तन्निवृत्त्यर्थं सपूर्वस्येति वचनमिति भावः। वस्तुतस्तु "व्यपदेशिवद्भावोऽप्रातिपदिकेने"ति निषेधादिह केवलपतिशब्दस्य पतिशब्दान्तत्वाऽभावादेव नत्वविकल्पनिवृत्तिसिद्धेः सपूर्वस्येति स्पष्टार्थमित्याहुः।

तत्त्व-बोधिनी
विभाषा सपूर्वस्य ४३७, ४।१।३४

विभाषा सपूर्वस्य। अप्राप्तविभाषेयम्, अयज्ञसंयोगत्वात्। पूर्वेण सहितः सपूर्वस्तस्य। यस्य समुदायस्य पूर्वावयवो विद्यते तस्येत्यर्थः। स च समुदायः पतिशब्दो नभवतीति पतिशब्देन तदन्तविधिरित्याह---पतिशब्दान्तस्येति। ननु "पत्यु"रिति प्रातिपदिकविशेषणेन तदन्तलाभात्पत्यन्तस्येत्येवास्तु किमनेन सपूर्वग्रहणेन()। अत्राहुः--केवलपतिशब्दस्यापि व्यपदेशिवद्भावेन पत्यन्तत्वादतिप्रसङ्गः स्यात्तद्वारणाय सपूर्वग्रहणमिति। अत्र पूर्वशब्दः पूर्वावयवपर इथि ध्वनयन्प्रत्युदाहरति---गवां पतिः स्त्रीति। पातीति पतिरिति क्रियाशब्दस्य त्रिलिङ्गत्वादिह स्त्रीत्वम्। तथा च तैत्तिरीयैर्नपुंसकेऽपि प्रयुज्यते---"अन्नं साम्राज्यानामधिपति तन्मावतु"इति। व्यस्ते कथमिति। प्राचा तु समस्तेऽप्युपचार इत्युक्तं तद्वृथैवेति भावः।