पूर्वम्: ४।१।३२
अनन्तरम्: ४।१।३४
 
सूत्रम्
पत्युर्नो यज्ञसंयोगे॥ ४।१।३३
काशिका-वृत्तिः
पत्युर् नो यज्ञसंयोगे ४।१।३३

पतिशब्दस्य नकारादेशः स्त्रियां विधीयते, ङीप् प्रत्ययस् तु नकारान्तत्वादेव सिद्धः यज्ञसंयोगे। यज्ञेन संयोगः यज्ञसंयोगः। तत्साधनत्वात् फलग्रहीतृत्वात् वा यजमानस्य पत्नी। पत्नी वाचं यच्छ। यज्ञसंयोगे इति किम्? ग्रामस्य पतिरियं ब्राह्मणी कथं वृषलस्य पत्नी? उपमानाद् भविष्यति।
न्यासः
पत्युर्नो यज्ञसंयोगे। , ४।१।३३

"यज्ञसंयोगे" इति। यज्ञसम्बन्धे। कस्य पुनर्यज्ञेन संयोगः? पतिशब्दवाच्यार्थस्य। अथ पतिशब्दस्यैव कस्मान्न भवति? असम्भवात्। तयोर्हि वाच्यवाचकभावलक्षणः सम्बन्धः स्यात्, न केवलः पतिशब्दो यज्ञस्य वाचकः। कथं पुनर्यज्ञेन संयोग इत्याह-- "तत्साधनत्वात्" इति। तस्य यज्ञस्य साधनं तत्साधनम्, तद्भावो यज्ञसाधनत्वम्। तस्माद्यज्ञेन संयोगो भवति। यजमानस्य या भार्या तस्या यागं प्रति साधनभावोऽस्तीति; विना तया तदनिष्पत्तेः। न हि भार्याविरहितस्त्रैर्णिकः केवलो यज्ञेऽधिक्रियते। तस्मात् स तया करणभूतया यज्ञं निष्पादयतीत्यस्ति तस्या यज्ञेन सह क्रियाकारकलक्षणः सम्बन्धः। "तत्फलग्रहीतृत्वाद्वा" इति। यज्ञसंयोगे द्वितीयो हेतुः। अनेन तु स्वस्वामिभावलक्षमः सम्बन्धः प्रतिपाद्यते। यज्ञस्य यत्प्रधानं फलं स्वर्गाख्यं तद्यजमानस्य पत्नी परिगृह्णाति। अतो यद्यपि यज्ञं प्रति तस्याः साधनत्वं न विवक्ष्यते, तथापि तत्फलस्य ग्रहणात्, यथा यजमानस्य यज्ञेन हस स्वस्वामिभावसम्बन्धः, तथा तत्पत्न्या अपि। अथ फलग्रहीतृत्वादिति कथमत्र षष्ठीसमासः? कथञ्च न स्यात्? "कत्र्तरि च" (२।२।१६) इति तृचा सह षष्ठीसमासप्रतिषेधात्? नैवायं तृजन्तेन षष्ठीसमासः, किं तर्हि? द्वितीयेति योगविभागात् तृन्नन्तेन द्वितीयासमासः। अथ वा-- याजकादिषु ग्रहीतृशब्दो द्रष्टव्यः, तेन षष्ठीसमासो भविष्यति। अथापि तत्र न पठ()ते? एवमपि "याजकादिभिश्च" २।२।९ इति चकारस्यानुक्तसमुचयार्थत्वाद्भविष्यति। "ऋन्नेभ्यो ङीप्" ४।१।५ इति ग्रहीतृशब्दादिह ङीप् न भवति, स्त्रीत्वस्याविवक्षितत्वात्। क्वचित् "फलगृह्णीतत्वात्" इति पाठः।तत्र फलगृहीतशब्दयोर्बहुव्रीहिः। फलशब्दस्य जातिवाचित्वान्निष्ठायाः पूर्वनिपाते प्राप्ते "जातिकालसुखादिभ्यः परवचनम्" (वा।११६) इति गृहीतशब्दस्य परनिपातः। "कथम्" इत्यादि। एं मन्यते-- "शूद्रस्यैव तावद्यज्ञेऽनधिकृत्वाद्यज्ञेन संयोगो नास्ति, किं पुनस्तद्भार्यायाः? अतः "वृषलस्य पत्नी" इत्येष प्रयोगो नोपपद्यते" इति। "उपमानाद्भविष्यति" इति। पत्नीवद्धि पत्नी। यथैव हि यजमानस्य पत्न्यग्निसाक्षिपूर्वकेण तत्पत्युः सम्बन्धिनी तत्कार्येषु चाधिकृता तथा वृषलस्य भार्याऽपि। तस्मात् पत्नीसमाधम्र्यात् साऽपि पत्नीत्युच्यते॥
बाल-मनोरमा
पत्युर्नो यज्ञसंयोगे ४८३, ४।१।३३

पत्युर्नो। पत्युरिति षष्ठी। "न" इत्यकार उच्चारणार्थः। स्त्रियामित्यधिकृतम्। तदाह--पतिशब्दस्येति। यज्ञेनेति। यज्ञसंबन्धः=यज्ञेन सह स्वामितया संबन्धः। यज्ञफलभोक्तृत्वमिति यावत्। तदाह--तत्कर्तृकस्येति। वसिष्ठकर्तृकस्येत्यर्थः। ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्तृत्युचितं, नतु तत्स्त्र्यपि, "स्वर्गकामः" इत्यादिपुंलिङ्गशब्दैः पुंस एवाधिकारावगमादित्यत आह--दम्पत्योः सहाधिकारादिति। एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम्। अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादे "लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः" इत्यधिकरणे "स्ववतोस्तु वचनादैककम्र्यं स्यात्" इत्यधिकरणे च दम्पत्योः सहाधिकारः सिद्धान्तितः। प्रपञ्चितं चैतदस्माबिरध्वरमीमांसाकुतूहलवृत्तौ।