पूर्वम्: ४।१।४५
अनन्तरम्: ४।१।४७
 
सूत्रम्
नित्यं छन्दसि॥ ४।१।४६
काशिका-वृत्तिः
नित्यं छन्दसि ४।१।४६

बह्वादिभ्यः छन्दसि विषये नित्यं स्त्रियां ङीष् प्रत्ययो भवति। बह्वीषु हित्वा प्रपिबन्। बह्वी नाम ओषधी भवति। नित्यग्रहणम् उत्तरार्थम्।
न्यासः
नित्यं छन्दसि। , ४।१।४६

अथ नित्यग्रहणं किमर्थम्, यावता पूर्वेणैव सिद्धे विकल्पे सत्यारम्भसामथ्र्यादेव नित्यं भविष्यति? इत्यत आह-- "नित्यग्रहणमुत्तरार्थम्" इति॥