पूर्वम्: ४।१।४६
अनन्तरम्: ४।१।४८
 
सूत्रम्
भुवश्च॥ ४।१।४७
काशिका-वृत्तिः
भुवश् च ४।१।४७

छन्दसि विषये स्त्रियां भुवो नित्यं ङीष् प्रत्ययो भवति। विभ्वी च। प्रभ्वी च। संभ्वी च। इह कस्मान् न भवति, स्वयम्भूः? उतः इति तपरकरणम् अनुवर्तते। ह्रस्वादेव इयं पञ्चमी। भुवः इति सौत्रो निर्देशः।
न्यासः
भुवश्च। , ४।१।४७

"प्रभ्वी" इत्यादि। "भुवः संज्ञान्तरयोः" ३।२।१७९ इत्यतः "भुवः" इत्यनुवत्र्तमाने "विप्रंशभ्यो ड्वसंज्ञायाम्" ३।२।१८० इतिप्रत्ययः, तदन्तान्ङीष्। "स्वयम्भूः" इति। भवतेः क्विबन्तस्य रूपम्। ननु च "भुवः" इति भूशब्दाद्दीर्घादियं पञ्चमी, , ततश्च दीर्घादेव प्रत्ययेन भवितव्यम्, न ह्यस्वादित्यत आह-- "ह्यस्वादेवेयं पञ्चमी " इति। तर्हि "भुवः"इति निर्देशो नोपपद्यते, "घेर्ङिति" (७।३।१११) इति गुणे कृते "भोः" इति निर्देशेन भवितव्यम्? इत्यत आह-- "सौत्रो निर्देशः"इति। छन्दसि वर्णव्यत्यय उक्तः। तेन तस्य गुणेऽकृत उवङादेशः कृत इति दर्शयति॥