पूर्वम्: ४।१।५१
अनन्तरम्: ४।१।५३
 
सूत्रम्
बहुव्रीहेश्चान्तोदात्तात्॥ ४।१।५२
काशिका-वृत्तिः
बहुव्रीहेश् च अन्तोदत्तात् ४।१।५२

क्तातित्येव। बहुव्रीहिर् यो ऽन्तोदात्तः, तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। स्वाङ्गपूर्वपदो बहुव्रीहिरिह उदाहरणम्। अस्वाङ्गपूर्वपदाद् विकल्पं वक्ष्यति। शङ्ख्यभिन्नी। ऊरुभिन्नी। गललोत्कृत्ती। केशलूनी। बहुव्रीहेः इति किम्? पादपतिता। अन्तोदात्ताज् जातप्रतिषेधः। दन्तजाता। स्तनजाता। पाणिगृहीत्यादीनाम् अर्थविशेषे। पाणिगृहीती भार्या। यस्य अस्तु कथञ्चित् पाणिर् गृह्यते पाणिगृहीता सा भवति। अबहुनञ्सुइआलसुखादिपूर्वादिति वक्तव्यम्। बहुकृता। नङ् अकृता। सु सुकृता। काल मासजाता। संवत्सरजाता। सुखादि सुखजाता। दुःखजाता। जातिकालसुखाऽदिभ्यो ऽनाच्छादनात् क्तो ऽकृतमित। प्रतिपन्नाः ६।२।१६९ इत्येवम् आदिना भौव्रीहेरन्तोदात्तत्वम्।
न्यासः
बहुव्रीहेश्चान्तोदात्तात्। , ४।१।५२

"शङ्खभिन्नी" इति। "रदाभ्याम्" ८।२।४२ इति नत्वम्। निष्ठान्तस्य "निष्ठा" २।२।३६ इति पूर्वनिपाते प्राप्ते "जातिकालसुखादिभ्यः परवचनम्" (वा।११६) इति स न भवति। शङ्खादिशब्दा हि जातिवचनाः। अत एव हि "जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः" ६।२।१६९ इत्यन्तोदात्तत्वं भवति। "गलकोत्कृती" इति। "कृती छेदने" (धा।पा।१४३५) इत्यस्मात् क्तः। "केशलूनी" इति। केशान् लुनातीति। "ल्वादिभ्यः" ८।२।४४ इति नत्वं चोदयति। "पादपतिता" इति। "कर्त्तृकरणे कृता बहुलम्" २।१।३१ इति तत्पुरुषसमासेऽन्तोदात्तत्वम्। "अन्तोदात्ताज्जातप्रतिषेधः" इति। अन्तोदात्ताद्बहुव्रीहेर्ङीषो विधाने जातशब्दान्तात् प्रतिषेधः, स चान्तग्रहणादेव लभ्यत इति न वक्तव्यम्। इहान्तग्रहणं न कत्र्तव्यमेव, विनाऽपि तेन यथा "वर्णाअदनुदात्तात्" ४।१।३९ इत्यत्रानुदात्तान्तादिति विज्ञायते, तथेहाप्यन्तोदात्तन्तादिति विज्ञास्यते? तदेवमर्थं क्रियते--- अन्तोदात्त एव यो नित्यं बहुव्रीहिस्ततो यथा स्यात्, विकल्पेन योऽन्तोदात्तस्ततो मा भूदिति। इह च दन्ताजाता, स्तनजातेत्यत्र "वा जाते" ६।२।१७० इति विकल्पेनान्तोत्तत्वम्, अतोऽयं विधिर्न भविष्यति। अथ वा-- उत्तरसूत्रे वाग्रहणमुभयोरपि योगयोः शेषः, व्यवस्थितविभाषा च, तेन जातशब्दान्तान्न भविष्यति। अ()स्मस्तु व्याख्यानेऽन्तग्रहणं विस्पष्टार्थमेवेति वेदितव्यम्। "पाणिगृहीत्यादीनामर्थविशेषे"इति। "सिद्धये" इति शेषः। पाणिगृहीतीत्यादीनां सिद्ध्यर्थं विशेष एव ङीब्भवति, न सर्वत्र। एतदपि व्यवस्थितविभाषया लभ्यते। विशेषस्तु पाणिग्रहणस्य वेदितव्यः। आग्निसाक्षिपूर्वकं भार्यार्थं यस्या पाणिग्रहणं क्रियते सा पाणिगृहीतीति भवति। "यथाकथञ्चित्" इति। यथोक्तात् प्रकारादन्येन केनापि प्रकारेणेत्यर्थः। "अबहुनञ्" इत्यादि। बह्वादिपूर्वान्ङीष् न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तस्यैव वाग्रहणस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। "जातिकालसुखादि" इत्यादि। "बहुकृते" इत्यत्र "बहोर्नञ्वदुत्तरपदभूम्नि" ६।२।१७४ इत्यन्तोदात्तत्वम्। "अकृता, सकृता" इत्यत्र "नञ्सुभ्याम्" इति। "मासजातः" इत्यादिषु "जातिकालसुखादिभ्योऽनाच्छादनात् क्तः" ६।२।१६९ इति॥
बाल-मनोरमा
बहुव्रीहेश्चान्तोदात्तात् ५०१, ४।१।५२

बहुव्रीहेश्च। क्तादिति अत इति चानुवर्तते। तदाह--बहुव्रीहेरिति। क्तान्तादिति। क्तान्तान्तादित्यर्थः। तेनेति। जातिपूर्वादिति विशेषणेन बह्वादिपूर्वान्न ङीषित्यर्थः। "सुखादिभ्यः कर्तृवेदनाया"मित्यत्र सुखादिगणः पठितः। जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः" इति, "नञ्सुभ्या"मिति "बहोर्नञ्वदुत्तरपदभूम्नी"ति च क्तान्तबहुव्रीहावन्तोदात्तविधायकानि। अत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वस्यान्तोदात्तत्वेऽप्यर्थात् पर्युदास इति भावः।

ऊरुभिन्नीति। ऊरू भिन्नौ असंयुक्तौ यस्या इति विग्रहः। "निष्ठा" इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति, "जातिकालसुखादिभ्यः परा निष्ठा वाच्या" इति वार्तिकात्। "जातिकालसुखादिभ्यः" इत्यादिसूत्रेणान्तोदात्तमिदम्। जातिलक्षणं तु "जातेरस्त्रीविषया"दित्यत्र वक्ष्यते। बहुकृतेति। बहवः कृता यायेति विग्रहः। अकृता, सुकृता, मासयाता, सुखयाता, दुःखयाता इति च भाष्ये प्रत्युदाह्मतम्।

जातान्तान्न-इति वार्तिकम्। "बहुव्रीहेश्चे"त्युक्तो ङीष् नेत्यर्थः। दन्तजातेति। दन्ता जाता यस्या इति विग्रहः। ऊरुभिन्नीतिवत् परनिपातः।

पाणिगृहीती भार्यायामिति। इदमपि वार्तिकम्। विधिवदूढा भार्या , तदस्यां विद्यमानादेव पाणिगृहीतशब्दान्ङीषित्यर्थः। विवाहकाले विधिवत् पाणिर्गृहीतो यस्या इति विग्रहः। अन्येति। दास्यादिरित्यर्थः।

तत्त्व-बोधिनी
बहुव्रीहेश्चान्तोदात्तात् ४५२, ४।१।५२

तेन बह्विति। अयं भावः--"बहोर्नञ्वदुत्तरपदभूम्नि""नञ्सुभ्यां""जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः"इति ह्रन्तोदात्तविधायकानि। तत्र "जातिपूर्वा"दित्युक्ते बह्वादिपूर्वकस्यांर्थाद्व्युदास इति।

जातिपूर्वादिति वक्तव्यम्। सुखादिपूर्वान्नेति। "सुखादिभ्यः कर्तृवेदनाया"मित्यत्र ये पठिताः सुखदुःखकृच्छ्रादयस्तेऽत्र गृह्रन्ते। सुखायाता। सुखं दुःखं वा आयातं प्राप्तमनयेति विग्रहः। "अस्वाङ्गपूर्वपदाद्वे"ति विकल्पस्य वक्ष्यमाणत्वादिह स्वाङ्गपूर्वपद एवोदाहरणामाह--ऊरुभिन्नीति। भिन्नौ ऊरु यस्या इति बहुव्रीहौस भिन्नशब्दस्य "निष्ठे"ति पूर्वनिपाते प्राप्ते "जातिकालसुखादिभ्यः परा निष्ठा वाच्ये"ति परनिपातः। बहुकृतेति। बहूनि कृतानि यया सा।

जातान्तान्न। जातान्तान्नेति। "वर्णादनुदात्ता"दितिवत्-----"बहुव्रीहेरुदात्ता"दित्येव सिद्धेऽन्तग्रहणं नित्यत्वप्रतिपत्त्यर्थम्। "वा जाते"इति तु वैकल्पिक उदात्तो न तु नित्यमिति भावः।

पाणिगृहीति भार्यायाम्। पाणिगृहीतीति। यस्याः पाणिरग्निसाक्षिकं गृह्रते तस्यां वाच्यायां पाणिगृहीतशब्दान्ङीष्वक्तव्य इत्यर्थः। अन्येति। कौतुकादिना पाणिर्गृहीतो यस्या दास्यादेः सा "पाणिगृहीता"।