पूर्वम्: ४।१।५४
अनन्तरम्: ४।१।५६
 
सूत्रम्
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च॥ ४।१।५५
काशिका-वृत्तिः
नासिकाउदरओष्ठजङ्घादन्तकर्णशृङ्गाच् च ४।१।५५

स्वाङ्गाच् च उपसर्जनातित्येव। बह्वज्लक्षणे संयोगोपधलक्षणे च प्रतिषेधे प्राप्ते वचनम्। सहनञ्विद्यमानलक्षणस् तु प्रतिषेधो भवत्येव। नासिकाऽअद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। तुङ्गनासिकी, तुङ्गनासिका। तिलोदरी, तिलोदरा। बम्बोष्ठी, बम्बोष्ठा। दीर्घजङ्घी, दीर्घजङ्घा। समदन्ती, समदन्ता। चारुकर्णी, चारुकर्णा। तीक्षणशृङ्गी, तीक्ष्णशृङ्गा। पुच्छाच् च इति वक्तवय्म्। कल्याणपुच्छी, कल्याणपुच्छा। कबरमणिविषशरेभ्यो नित्यम्। कबरपुच्छी। मणिपुच्छी। विषयुच्छी। शरपुच्छी। उपमानात् पक्षाच् च पुच्छात् च। उलूकपक्षीसेना। उलूकपुच्छी शाला।
न्यासः
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च। , ४।१।५५

"बह्वज्लक्षणे" इत्यादि। नासिकोदरयोः। "न क्रोडादिबह्वचः" ४।१।५६ इति बह्वज्लक्षणे प्रतिषेधे प्राप्ते वचनम्। शेषाणाम् "असंयोगोपधात्" ४।१।५४ इति संयोगोपलक्षणे। "सहनञ्विद्यमानपूर्वलक्षणनस्तु प्रतिषेधो भवत्येव" इति। नासिकोदरयोस्तावदयं योगः "पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते, नोत्तरान्" (व्या।प।९) इत्यनन्तरमेव बह्वज्लक्षणं प्रतिषेधं बाधते, न सहादिलक्षणम्। ओष्ठादिष्वपि "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते" (व्या।प।१०) इति पूर्वमेव संयोगोपधलक्षणम्, तेनासौ भवत्येवम-- सहनासिका, अनासिका, विद्यमाननासिकेति। "बिम्बोष्ठी" इति। बिम्बमिवोष्ठौ यस्याः सा बिम्बोष्ठी-- "ओत्वष्ठयोः समासे वा पररूपं वक्तव्यम्" (वा।६८७) इत्यौपसंख्यानिकं पररूपत्वम्। ये तु बिम्बौष्टीत्यौकारं पठन्ति ते "वृद्धिरेचि" ६।१।८५ इति वृदिं()ध कुर्वन्ति। "पुच्छाच्चेति वक्तव्यम्" इति। पुच्छान्ताच्च प्रातिपदिकान्ङीष् भवतीत्येदर्थरूपं व्याख्येमित्यर्थः। किमर्थम्? संयोगोपधादपि पुच्छान्ताद्यथा स्यात्। व्याख्यानं तु चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कत्र्तव्यम्। "कल्याणपुच्छी" इति। कल्याणं पुच्छमस्याः। "कबर" इत्यादि। कबरादिभ्यो यः पुच्छशब्दस्तदन्तान्ङीष् भवतीति। एषोऽपि तत एव चकाराद्वाग्रहणस्य वा व्यवस्थितविभाषात्वल्लभ्यते। कबरं पुच्छे यस्याः सा कबरपुच्छी। एवं "मणिपुच्छी, विषपुच्छी, शरपुच्छी" इति। "सप्तमीविशेषणे बहुव्रीहौ" २।२।३५ इति पुच्छस्य पूर्वनिपातो न भवति; "सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम्" (वा। ११५) इति वचनात्। "उपमानात् पक्षात् पुच्छाच्च" इति। नित्यमिति सम्बध्यते। एतदपि पूर्वोक्तात् कारणद्वयाल्लभ्यते। "पुच्छाच्चेति वक्तव्यम्" (वा।३६४) इत्यनेनैव सिद्धे पुनरिह पुच्छग्रहणं प्रपञ्चार्थम्,नित्यार्थं वा। उलूकस्येव पुच्छं यस्याः सा "उलूकपुच्छी"॥
बाल-मनोरमा
नासिकोदरौष्ठजङ्घादन्तकर्णश्रृङ्गाच्च ५०४, ४।१।५५

नासिकोदरोष्ठ। अस्वाङ्गपूर्वपदाद्वा" इत्यतो वेति, "अन्यतो ङीष्" इत्यतो ङीषिति चानुवर्तते। तदाह--एभ्य इति। उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः , पूर्वसूत्रादुपसर्जानादित्यनुवृत्तेः। ननु "स्वाङ्गाच्चे"ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह--आद्ययोरिति। नासिकोदरशब्दयोर्विषये "न क्रोडादिबह्वचः" इति निषेधः प्राप्तः सोऽनेन ङीष्विकल्पविधिना वाध्यत इत्यर्थः। बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः। ननु सहनासिका, अनासिका, सहोदरा, अनुदरा #इत्यत्र "सहनञ्विद्यमानपूर्वाच्चे"ति निषेधोऽप्यनेन वाध्यतां, "सहनञ्" इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्य आह--पुरस्तादिति। "पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्" इति न्यायादित्यर्थः। ततश्च "सहनञि"ति निषेधो "न क्रोडादि"सूत्रे व्यवहितत्वात् "नासिकोदर; इत्यनेन बाधं नार्हतीत्यर्थः। ओष्ठादिपञ्चकस्य प्रयोजनमाह--ओष्ठादीनामिति। सुगुल्फोत्यादावसंयोगापधादित्यस्य सावकाशत्वादिति भावः। ननु सहोष्ठा, अनोष्ठा इत्यादौ "सहनञि"ति निषेधोऽप्यनेन बाध्यतामित्यत आह--मध्येऽपवादेति। "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्" इत#इ न्यायादित्यर्थः। ननु "नासिकोदर" इति ङीष्विकल्पस्तुङ्गनासिकीत्यादौ सावकाशः, "सहन"ञिति निषेधस्तु सहकेशेत्यादौ सावकाशः, सहनासिकेत्यादौ तूभयप्राप्तौ कतरस्या बाध इत्यत आह--सहनञ्लक्षणस्त्विति। अस्येति। "नासिकोदर" इति हीष्विकल्पविधेरित्यर्थः। तुङ्गनासिकी तुङ्गनासिकेति। "न क्रोडादिबह्वचः" इति बह्वज्लक्षणङीष्निषेधं बाधित्वा "नासिकोदर" इति विकल्पः। इत्यादीति। कुम्भोदरी-कुम्भोदरा। अत्र बह्वज्लक्षणङीष्निषेधं बाधित्वा ङीष्विकल्पः। बिम्बोष्ठी-विम्बोष्ठा। सुजङ्घी-सुजङ्घा। शुभ्रदन्ती-शुब्रादन्ता।सुकर्णी-सुकर्णा। सुश्रह्गी-सुश्रृङ्दा। ओष्ठादिषु संयोगोपधत्वेऽपि ङीष्विकल्पः। सहनासिकेति। सहशब्दोविद्यमानवचनः, सह नासिका यस्या इति विग्रहः। अविद्यमाना नासिका यस्या इति च विग्रहः। इह उभयत्रापि "सहनञ्विद्यमाने"ति ङीष्निषेधो नतु "नासिकोदर" इति ङीष्विकल्प इत्यर्थः। वक्तव्यमिति। "वा ङी"षिति इति शेषः संयोगापधत्वाद्ववचनम्। स्वङ्गीतचि। सु=शोभनानि अङ्गानि यस्या इति विग्रहः। सुगात्री-सुगात्रा। सुकण्ठी-सुकण्ठा। वृत्तिग्रन्थस्य मूलं दर्शयति--एतच्चेति। प्रामाणिका इति। एवं च तन्वङ्गी, सुगात्री, कलकण्ठी त्यपभ्रंशा एवेति भावः।

पुच्छाच्चेति। संयोगापधत्वेऽपि पुच्छशब्दान्तान्ङीष्वेति वक्तव्यमित्यर्थः

कबरमणीति। कबरादिभ्यः परो यः पृच्छशब्दस्तदन्तान्नित्यं ङीषिति वक्तव्यमित्यर्थः। "पुच्छाच्चे"त्युक्ताविकल्पापवादः। कबरमित्यस्य व्याख्यानं त्रित्रमिति। इत्यादीति। मणिपुच्छी वृश्चकी। विषपुच्छी। शरपुच्छी पक्षिजातिविशेषः।

उपमानादिति। उपमानात्परौ यौ पक्षपुच्छशब्दौ तदन्तादपि ङीषित्यर्थः। नित्यमित्येवेति। नित्यमित्यनुवर्तत एवेत्यर्थः। विकल्पापवादः। उलूकपक्षी शालेति। उलूकः पक्षिविशेषः, उलूकपक्षाविव पक्षौ पार्(ो यस्या इति विग्रहः। "सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्च" इति समासः। संयोगोपधत्वादप्राप्ते विधिः। उलूकपुच्छी सेनेति। उलूकपुच्छमिव पुच्छ=पश्चिमान्तो यस्या इति विग्रहः। पूर्वपदे बहुव्रीहिः। "पुच्छाच्चे"ति विकल्पस्यापवादः।

तत्त्व-बोधिनी
नासिकोदरौष्ठजङ्घादन्तकर्णश्रृङ्गांच्च ४५५, ४।१।५५

मध्येऽपवादेति। "मध्येऽपवादाः पूर्वान्विधीन्बीधन्ते नोत्तरान् इति न्यायादित्यर्थः। उरः क्रोडेति। स्त्रीलिङ्गोऽयमिति हरदत्तादयः। तत्रोपसर्जमह्यस्वत्वे कृते अदन्तत्वान्ङीषः प्राप्तिः। अमरस्तु "न ना क्रोडं भुजान्तरम्ित्याह। रत्नमतिस्तुपुंलिङ्गतामाह। "गणे च "क्रोड"इति प्रातिपदिकमात्रं पठ()ते न तु टाबन्त"मिति गणरत्न महोदधिकारः। एवं चाऽविशेषाल्लिङ्गत्रयेऽप्युदाहरणं बोध्यम्। माधवस्तु--तुदादिगणे "क्रुड निमज्जने"इति धातावाह---"क्रोडः--धञ्। क्रोडा अ()आनामुरः। टाबन्तोऽयं स्वभावतो विशेषविषयः। क्रोडादिषु टाबन्तमात्रस्य पाठात्। भुजान्तरमात्रवचनस्य क्रोडशब्दस्य बहुव्रीहौ स्वाङ्गलक्षणो ङीष्विकल्पो भवत्येव। "कल्याणक्रोडी कल्याणक्रोडा मयूरी"ति। केशैः सह वर्तत इति।