पूर्वम्: ४।१।५५
अनन्तरम्: ४।१।५७
 
सूत्रम्
न क्रोडादिबह्वचः॥ ४।१।५६
काशिका-वृत्तिः
न क्रोडादिबह्वचः ४।१।५६

स्वाङ्गातिति ङिष् प्राप्तः प्रतिषेध्यते। क्रोडाद्यन्तात् बह्वजन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। कल्याणक्रोडा। कल्याणाखुरा। कल्याणोखा। कल्याणबाला। कल्याणशफा। कल्याणगुदा। कल्याणघोणा। कल्याणनखा। कल्याणमुखा। क्रोडादिराकृतिगणः। सुभगा। सुगला। बह्वचः खल्वपि पृथुजघना। महाललाटा।
लघु-सिद्धान्त-कौमुदी
न क्रोडादिबह्वचः १२६९, ४।१।५६

क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष्। कल्याणक्रोडा। आकृतिगणोऽयम्। सुजघना॥
न्यासः
न क्रोडादिबह्वचः। , ४।१।५६

"कल्याणक्रीडा" इति। क्रोडाशब्दः स्त्रीलिङ्गः। "क्रोडाघाटाजिह्वाशिरोधरासङ्गकुलास्पृहामाया" इति लिङ्गकारिकायां पाठात्। कल्याणी क्रोडाऽस्या इति विग्रहः। "स्त्रियाः पुंवत्" ६।३।३३ इति पुंवद्भावः। उत्तरपदस्य "गोस्त्रियोः" १।२।४८ इत्यादिना ह्यस्वः। ततः "स्वाङ्गाच्चोपसर्जनात्" ४।१।५४ इत्यादिना प्राप्तस्य ङीपोऽनेन प्रतिषेधः ततष्टाप्। "महाललाटा"इति। "आमन्महत्" (६।३४६) इत्यादिनात्वम्॥
बाल-मनोरमा
न क्रोडादिबह्वचः ५०५, ४।१।५६

न क्रोडादिबह्वचः। क्रोडा आदिर्यस्येति, बहवोऽचो यस्येति च विग्रहः। क्रोडादिश्च बह्वच्च इति समाहारद्वन्द्वः। क्रोडादेरिति। क्रोडादिर्गणः, बह्वच्च यत्स्वाङ्गं तदन्तान्ङीष् नेत्यर्थः। कल्याणक्रोडेति। कल्याणी क्रोडा यस्या इति विग्रहः। "स्त्रियाः पुंवत्" इति कल्याणशब्दस्य पुंवत्त्वम्। अ()आआनामिति। हरदत्तादिमते क्रोडाशब्दो नित्यस्त्रीलिङ्गः। उपसर्जनह्यस्वत्वेऽदन्ततया "स्वाङ्गाच्चोपसर्जना"दिति प्राप्तो ङीष् निषिध्यते। अमरस्तु "न ना क्रोडं भुजान्तर"मिति स्त्रीत्वं नपुंसकत्वं चाह। क्वचित् कोशे पुंस्त्वमपि दृश्यते। क्रोडादिगणे क्रोड इति प्रातिपदिकं पठ()ते। एवं च लिङ्गत्रयेऽपि उदाहरणं निर्बाधम्। आकृतिणोऽयमिति। "क्रोडादि"रिति शेषः। सुजघनेति--बह्वच उदाहरणम्। सुशोभनं जघनं यस्या इति विग्रहः।