पूर्वम्: ४।१।६९
अनन्तरम्: ४।१।७१
 
सूत्रम्
संहितशफलक्षणवामादेश्च॥ ४।१।७०
काशिका-वृत्तिः
संहितशफलक्षणवामाऽदेश् च ४।१।७०

संहित शफ लक्षण वाम इत्येवम् आदेः प्रातिपदिकादूरूत्तरपदात् स्त्रियाम् ऊङ् प्रत्ययो भवति। अनौपम्यार्थ आरम्भः। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः। सहितसहाभ्यां च इति वक्तव्यम्। सहितोरूः। सहोरूः।
लघु-सिद्धान्त-कौमुदी
संहिताशफलक्षणवामादेश्च १२७७, ४।१।७०

अनौपम्यार्थं सूत्रम्। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः॥
न्यासः
संहितशफलक्षणवामादेश्च। , ४।१।७०

"संहितोरूः" इति। संहितशब्दः संश्लिष्टवचनः, संश्लिष्टोरुरित्यर्थः। "सहितसहाभ्याञ्चेति वक्तव्यम्" इति। सहित, सह -- इत्येताभ्यां परो य उरुशब्दस्तदन्ताच्च प्रातिपदिकादूङ् भवीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- घकारोऽत्र क्रियते, स चायुक्तसमुच्चयार्थः, तेन सहितसहाभ्यामपि भविष्यति। सूत्र आदिग्रहणमूरूत्तरपदमित्यस्यानुवृत्तेर्लिङ्गम्। अन्यथा संहितादिप्रातिपदिकेभ्य एव प्रत्ययो भवतीत्येषोऽर्थो विज्ञायेत। सत्यां हि स्वरितत्वादेवानुवृत्तावेभ्यो यत्परमूरूत्तरपदं सत्यप्यस्मिन् मध्यपदे तत्रैव प्रत्ययः प्रसज्यते;संहितस्वाम्यूरुशब्दात्, न संहितोरुशब्दात्। गुणभावादूरुशब्दस्य न स्यादेवेह विशेषणम्॥
बाल-मनोरमा
संहितशफलक्षणवामादेश्च ५१८, ४।१।७०

संहितशफ। संहित शफ लक्षण वाम एतत्पूर्वपदादप्यूरूत्तरपदादूङ् ऊरू यस्या इति विग्रहः। सैव शफोरूरिति। संहितोरूरेव शफोरूरित्यनेनोच्यत इत्यर्थः। शफशब्दं विवृणोतिशपौ खुराविति। यद्यपि "शफं क्लीबे खुरः पुमा"नित्यमरस्तथापि "शफः खुरे गवादीना"मिति [हेम] चन्द्रकोशात्पुंस्त्वमिति भावः। ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह--ताविवेति। यतः शफाविव, अत ऊरू शफशब्देनोच्येते इत्यर्थः। कुतस्तत्सादृश्यमित्यत आह--संश्लिष्टत्वादिति। तर्ह्रुपमानवाचिपूर्वपदत्वादेव सिद्धमित्यत आह--उपचारादिति। शफवद्वास्तवं संश्लिष्टत्वमवलम्ब्या शफत्वस्य आरोपादित्यर्थः। एवं च शफशब्दात्तत्सादृश्याऽप्रतीतेर्नोक्तदोष इति भावः। लक्षणोरूरिति। लक्षणौ ऊरू यस्या इति विग्रहः। ननु मार्दवादिगुणपर्यायस्य लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह--लक्षणशब्दादिति। लक्षणमनयोरस्तीति विग्रहे लक्षणशब्दादर्शाअदिभ्योऽजित्यच्प्रत्यय इत्यर्थः। तथाच लक्षणयुर्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः। वामोरूरिति। वामौ=सुन्दरौ ऊरू यस्या इति विग्रहः। "वामौ वल्गुप्रतीपौ द्वौ" इत्यमरः।

सहितेति। "सहित" "सह" आब्यां परो य ऊरुशब्दस्तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः। ननु संहितग्रहणेनैव एकदेशविकृतन्यायेन सिद्धे पुनः सहितग्रहणं व्यर्थमित्यत आह--हितेनेति। हितेन सहेति विग्रहे "तेन सहे"ति बहुव्रीहौ "वोपसर्जनस्ये"ति सभावे सहितशब्द इत्यर्थः। ननु सहशब्दस्य विद्यमानवचनत्वे सहोरूरित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह--सहेते इति। "रतिकालिकमर्दन"मिति शेषः। विद्यमानवचनत्वेऽपि सहशब्दस्य न वैयथ्र्यामित्याह-यद्वेति। अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयथ्र्यमिति भावः।

तत्त्व-बोधिनी
संहितशफलक्षणवामादेश्च ४६७, ४।१।७०

संहित। संहितादिपूर्वपदमूरूत्तरपदं यत् प्रातिपदिकं तस्मादूङ् स्यात्। शफाविति। यद्यप्यमरेण "शफं क्लीबे खुरः पुमान्िति नपुंसकतोक्ता, तथापि शफशब्दस्य पुंस्त्वमपि प्रामाणिकमेव। "शफाविव जर्भुराणे"ति श्रुतेः। "शफः खुरे गवादीनां मूले विटपिनामपि"इति हेमचन्द्रकोशाच्च। वामोरूरिति। वामौ सुन्दरौ ऊरू यस्या इतचि विग्रहः। कथं तर्हि "पीवरोरु। पिबतीव बर्हिणः"इति कुमारः। ऊङभावे हि "पीवरोरो"इति स्यात्। ऊङ्श्चेह विधायकं नास्ति। अत्राहुः---संज्ञापूर्वकविधेरनित्यतया संबुद्धिगुणाऽभावादिति स्थितस्य गतिरुन्नेयेति।

सहितसहाभ्यां चेति वक्तव्यम्। हितेन सहेति। अत्राहुः-- "समो वा हितततयोः"इति व्युत्पादितः "सहित"शब्दस्तु नेह गृह्रते, एकदेशविकृततया संहितग्रहणादेव तत्सिद्धेरिति भावः।