पूर्वम्: ४।१।७०
अनन्तरम्: ४।१।७२
 
सूत्रम्
कद्रुकमण्डल्वोश्छन्दसि॥ ४।१।७१
काशिका-वृत्तिः
कद्रुकमण्डल्वोश् छन्दसि ४।१।७१

कद्रुशब्दात् कमण्डलुशब्दाच् च छन्दसि चिषये स्त्रियां ऊङ् प्रत्ययो भवति। कद्रूश्च वै सुपर्णी अ। मा स्म कमण्डलूं शूद्राय दद्यात्। छन्दसि इति किम्? कद्रुः। कमण्दलुः। गुग्गुलुमधुजतुपतयालूनाम् इति वक्तव्यम्। गुगुलूः। मधूः। जतूः। पतयालूः।
न्यासः
कद्रुकमण्डल्वोश्छन्दसि। , ४।१।७१

कद्रुशब्दो वर्णविशेषवचनः, ततः "वोतो गुणवचनात्" ४।१।४४ इति ङीषः प्राप्तस्य "खरुसंयोगोपधयोः" (वा।३४९) इति प्रतिषेधे कृते प्रातिपदिकेनानभिधाने प्राप्ते वचनम्। कमण्डलुशब्दस्याप्यप्राणिवाचित्वात् "अप्राणिजातेश्चारज्ज्वादीनाम्" (वा।३६९) इत्यूङ प्राप्ते छन्दसि नियमार्थम्। अथ वा-- अयं रज्ज्वादि,ततः प्रतिषेधे सति प्राप्त्यर्थं वचनम्॥