पूर्वम्: ४।१।७९
अनन्तरम्: ४।१।८१
 
सूत्रम्
क्रौड्यादिभ्यश्च॥ ४।१।८०
काशिका-वृत्तिः
क्रौड्यादिभ्यश् च ४।१।८०

क्रौडि इत्येवम् आदिभ्यश्च स्त्रियां ष्यङ् प्रत्ययो भवति। अगुरूपोत्तमार्थ आरम्भः। अनणिञर्थश्च। कौड्या। लाड्या। कौडि। लाडि। व्याडि। आपिशलि। आपक्षिति। चौपयत। चैटयत। शैकयत। बैल्वयत। वैकल्पयत। सौधातकि। सूत युवत्याम्। भोज क्षत्रिये भौरिकि। भौलिकि। शाल्मकि। शालास्थलि। कापिष्ठलि। गौलक्ष्य। गौकक्ष्य।
न्यासः
क्रोड�आदिभ्यश्च। , ४।१।८०

"क्रौजीत्येवमादिभ्यश्च स्त्रियां ष्यङ्प्रत्ययो भवति" इति। ननु चाचेशपक्षः पूर्वमाश्रितः, तत् किमर्थमिह प्रत्ययपक्ष आश्रीयते? तदाश्रयणेऽप्यत्र दोषो नास्तीति प्रदर्शनार्थः। "अगुरूपोत्तमार्थ आरम्भः" इत्यादि। येऽत्रान्ता इञन्ताश्च पठ()न्ते तान् त्ययमगुरूपोत्तमार्थ आरम्भः। ये त्वन्ये, तान् प्रत्ययमणिञर्थः। तत्राद्याः क्रौड()आदयः प्राक् चौपयतशब्दादिञन्ताः।चौपयतप्रभृतयस्त्वणन्ताः प्राक् सौधातकिशब्दात्। सौधातकिशब्दस्तु "सुधातोरकङ् च" ४।१।९७ इतीञन्तः। "सूत युवत्याम्" इति। सूतशब्दाद्युवत्यां प्राप्तयौवनायां ष्यङ् भवति-- सूत्या, अन्यत्र टाबेव--सूता। "भोज क्षत्त्रिये" इति। भोजशब्दात् क्षत्त्रियजातौ वाच्यायां ष्यङ भवति। जातिलक्षणस्य ङीषोऽपवादः--भोज्या, अन्यत्र टाबेव भवति-- भोजा। तत- परे प्राग्गौकक्ष्यशब्दादिञन्ताः। स पुनर्गर्गादियञन्तः॥
बाल-मनोरमा
क्रौड�आदिभ्यश्च ११८२, ४।१।८०

क्रौड()आदिभ्यश्च। "प्रत्ययविधि"रिति भाष्योक्तं पक्षान्तरमाश्रित्याह--ष्यङ्प्रत्यय इति। पूर्वेण सिद्धे किमर्थमिदमित्यत आह--अगुरूपोत्तमार्थोऽनणिञन्तार्थश्चेति। क्रौड()एति। क्रोडस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङ्, चाप्। इह "त्र्यादीनामन्त्यमुत्तम"मित्युक्तेर्न गुरूपोत्तमत्वम्। मनुष्यनामत्वे त्वण्। "गौकक्ष्य" शब्दो गर्गादिञन्तः। तस्य अनणिञन्तत्वेऽपि ष्यङ्। सूतयुवत्वामिति। गणसूत्रमिदम्। सूतशब्दो युवत्या ष्यङं लभत इत्यर्थः। सूत्रेयति। प्राप्तयौवनेत्यर्थः। जातौ तु सूतीत्येव। भोज क्षत्रिये। इदमपि गणसूत्रम्।

तत्त्व-बोधिनी
क्रौड�आदिभ्यश्च ९७८, ४।१।८०

क्रौड()आदिभ्यश्च। पञ्चमीनिर्देशात्प्रत्ययत्वमेवेहाश्रीयत इत्याह--ष्यङ् प्रत्यय इति। क्रौडि, व्याडि, आपिशलि, गौकक्ष्य---इत्यादि। गौकक्ष्यशब्दो गर्गादियञन्तस्तदर्थमाह---अनणिञन्तार्थश्चेति। सूतेति। गण सूत्रम्। सूतशब्दः ष्यङं लभते युवत्यां वाच्यायामित्यर्थः। सूत्येति। ष्यङि "यङश्चार्"। अन्यत्र तु क्रियाशब्दाट्टाप्। सूतजातिवाचिनस्तु ङीष्। सूती। भोजेति। इदमपि गणसूत्रम्। जातिलक्षणङीषोऽपवादः ष्यङ्। क्रियाशब्दात्तु टाबेव---भोजयतीति भोज्या।