पूर्वम्: ४।१।८०
अनन्तरम्: ४।१।८२
 
सूत्रम्
दैवयज्ञिशौचिवृक्षिसात्यमुग्रि- काण्ठेविद्धिभ्योऽन्यतरस्याम्॥ ४।१।८१
काशिका-वृत्तिः
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यो ऽन्यतरस्याम् ४।१।८१

दैवयज्ञि शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि इत्येतेषाम् अन्यतरस्यां ष्यङ् प्रत्ययो भवति। इञन्ता एते, गोत्रग्रहणं च न अनुवर्तते। तेन उभयत्रविभाषेयम्। गोत्रे पूर्वेण ष्यङादेशः प्राप्तो विकल्प्यते, अगोत्रे त्वनन्तरे ऽपत्ये पक्षे विधीयते। तेन मुक्ते इतो मनुस्यजाते ४।१।६५ इति ङीषेव भवति। दैवयज्ञ्या, दैवयज्ञी। शौचिवृक्ष्या, शौचिवृक्षी। सात्यमुग्र्या, सात्यमुग्री। काण्ठेविद्ध्या, काण्ठेविद्धी।
न्यासः
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्। , ४।१।८१

"गोत्रे पूर्वेण नित्यः" इत्यादि। यदा पौत्रप्रभृतावपत्य इञ् विधीयते तदा पूर्वेण "अणिञोः" ४।१।७८ इत्यादिना नित्ये प्राप्ते विकल्प्यते। यदा त्वनन्तरापत्ये तदाऽप्राप्त एव पक्षे विधीयते॥
बाल-मनोरमा
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डेविद्धिभ्योऽन्यतरस्याम् १६५७, ४।१।८१

दैवयज्ञीति। देवयज्ञस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङ्विकल्पः। इत्यादीति। शुचिवृक्षस्यापत्यं स्त्री शौचिवृक्ष्या--शौचिवृक्षी। सत्यमुग्रमस्येत्यर्थे--सत्यमुग्रः। निपातनान्मुम्। सत्यमुग्रहस्यापत्यं स्त्री सात्यमुग्रय-सात्यमुग्री। काण्डेन विद्धः काण्डेविद्धः। निपातनादेत्त्वम्। काण्डेविद्धस्यापत्यं स्त्री काण्डेविद्ध्या-काण्डेविद्धी। कण्ठेविद्धीति पाठान्तरम्।

*****इति बालमनोरमायाम् अपत्याधिकारः।*****

अथाऽ‌ऽर्हीयाः।

----------

तत्त्व-बोधिनी
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डेविद्धिभ्योऽन्यतरस्याम् १२७९, ४।१।८१

दौवयज्ञि। चतुभ्र्य इति। "इञन्तेभ्य"इति शेषः। देवा यज्ञा यष्टव्या यस्य स देवयज्ञः। शुचिर्वृक्षो यस्य शुचिवृक्षः। सत्यमुग्रं यस्य सत्यमुग्रः। निपातनाद्विशेष्यस्य पूर्वनिपातः, मुमागमश्च। काण्डेन विद्धः कण्ठेविद्धः। "कर्तृकरणे कृते"ति समासः। निपातनात्काण्डशब्दस्यैकारः। पाठान्तरे कण्ठे विद्धमस्य, कण्ठे वा विद्धः कण्ठेविद्धः। "अमूर्धमस्तकादि "त्यलुक्। एभ्यः सर्वेभ्योऽपत्ये "अत इञ्"। गोत्रेऽपि परत्वादिति। तथा चोभयत्र विभाषेति भावः। अत्रेदमवधेयम्--"अणिञो"रिति सूत्रे यदि शास्त्रीयं गोत्रं गृह्रते तदा "अगोत्रार्थमिद"मित्यादिग्रन्थः स्वरसतः सङ्गच्छते। यदि तु लौकिकं गोत्रमेव तत्र गृह्रते तदा "अणिञोरि"ति नित्ये प्राप्ते विकल्पार्थमिदमित्येव व्याख्यातुनुचितमिति।

इत्यपत्याधिकारः तत्त्वबोधिन्याम्।