पूर्वम्: ४।१।८३
अनन्तरम्: ४।१।८५
 
सूत्रम्
अश्वपत्यादिभ्यश्च॥ ४।१।८४
काशिका-वृत्तिः
अश्वपत्यादिभ्यश् च ४।१।८४

अश्वपत्यादिभ्यः प्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेषु अण् प्रत्ययो भवति। पत्युत्तरपदाद् ण्यं वक्ष्यति, तस्य अपवादः। आश्वपतम्। शातपतं। अश्वपति। शतपति। धनपति। गणपति। राष्ट्रपति। कुलपति। गृहपति। धान्यपति। पशुपति। धर्मपति। सभापति। प्राणपति। क्षेत्रपति।
लघु-सिद्धान्त-कौमुदी
अश्वपत्यादिभ्यश्च १००१, ४।१।८४

एभ्योऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु। अश्वपतेरपत्यादि आश्वपतम्। गाणपतम्॥
न्यासः
अ�आपत्यादिभ्यश्च। , ४।१।८४

बाल-मनोरमा
अ�आपत्यादिभ्यश्च १०५८, ४।१।८४

अ()आपत्यादिभ्यश्च। चकारात् "प्राग्दीव्यतोऽ"णित्यनुकृष्यते। तदाह--एभ्योऽण् स्यादिति। दीव्यतः प्राक्--प्राग्दीव्यत्। "अपपरिबहिरञ्चवः पञ्चम्या" इत्यव्ययीभावः। "झयः" इति टच् तु न, तस्य पाक्षिकत्वात्। प्राग्दीव्यति भवाः-प्राग्दीव्यतीयाः। "वृद्धाच्छः"। "अव्ययात्त्यबि"ति तु न, अव्ययीभावस्याव्ययत्वे "लुहृउखस्वरोपचाराः प्रयोजन"मिति परिगणनात्। अत एव "अव्ययानां भमात्रे टिलोपः" इत्यपि न भवति। ननु "प्राग्दीव्यतोऽ"णित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह--वक्ष्यमाणस्येति। "दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः" इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः।

तत्त्व-बोधिनी
अ�आपत्यादिभ्यश्च ८८४, ४।१।८४

प्राग्दीव्यतीयेष्विति। दीव्यतः प्राक्प्राग्दीव्यत्। "अपपरिहहिरञ्चवः पञ्चम्या" इत्यव्ययीभाव"इति प्राञ्चः। "प्राग्दीव्यत"मिति तूचितम्, "झयः"इति टच्प्रवृत्ते"रिति केचित्। तन्न। "झयः"इति टचः पाक्षिकत्वात्। अन्यथा "उपसमिधमुपसमि"दिति तत्सूत्रस्थमूलोदाहरणस्याऽसङ्गत्यापत्तेः। न चाऽत्र टचोऽभावे "अव्ययानां भमात्रे"इति टिलोपे "प्राग्दीव्यतीय"इति रूपं न स्यादिति शङ्क्यम्। अव्ययीभावस्याव्ययत्वे प्रयोजनं "लुङ्भुखस्वरोपचारः"इति परिगणनात्। प्राग्दीव्यति भवः प्राग्दीव्यतीयः। "वृद्धाच्छः"। त्यप्तु न शङ्कनीय एव, "अमेहक्वतसित्रेभ्य एव" इति परिगणनात्। " लुङ्भुखस्वर"इत्यादिपरिगणनया अनव्ययत्वाच्च। वक्ष्यमाणस्येति। "पत्युत्तरपदाण्ण्यः"इति वक्ष्यमाणस्य।